Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 1
  6. अध्यायः २१

विष्णुपुराणम् · Amsha 1

अध्यायः २१

संस्कृतEnglish
Ask AI

1प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव चविरोचनस्तु प्राह्लादिर्बलिर्जज्ञे विरोचनात् १

2बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं महामुनेहिरण्याक्षसुताश्चासन्सर्व एव महा बलाः २

3झर्झरः शकुनिश्चैव भूतसन्तापनस्तथामहानाभो महाबाहुः कालनाभस्तथापरः ३

4अभवन्दनुपूत्राश्च द्विमूर्द्धा शंबरस्तथाअयोमुखः शंकुशिराः कपिलः शंकरस्तथा ४

5एकचक्रो महाबाहुस्तारकश्च महाबलःस्वर्भानुर्वृषपर्वा च पुलोम च महाबलः ५

6एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान् ६

7स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणीउपदानी हयशिराः प्रख्याता वरकन्यकाः ७

8वैश्वानरसुते चोभे पुलोमा कालका तथाउभे सुते महाभागे मारीचेस्तु परिग्रहः ८

9ताभ्यां पुत्रसहस्राणि षष्टिर्दानवसत्तमाःपौलोमाः कालकेयाश्च मारीचतनयाः स्मृताः ९

10ततोऽपरेमहावीर्या दारुणास्त्वतिनिर्घृणाःसिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा १०

11त्र्! यंशः शल्यश्च बलवान् नभश्चैव महाबलःवातापी नमुचिश्चैव इल्वलः खसृमस्तथा ११

12आन्धको नरकश्चैव कालनाभस्तथैव चस्वर्भानुश्च महावीर्यो वक्त्रयोधी महासुरः १२

13एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाःएतेषां पुत्रपौत्राश्च शतशोऽथ सहस्रशः १३

14प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुलेसमुत्पन्नाः सुमहता तपसा भावितात्मनः १४

15षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताःशुकी श्येनी च भासी च सुग्रीवी शुचिगृद्ध्रका १५

16शुकी शुकानजनयदुलूकप्रत्युलूकिकान्श्येनी श्येनांस्तथा भासी भासान्गृद्धांश्च गृद्ध्र्यपि १६

17शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायतअश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्त्तितः १७

18विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौसुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः १८

19सुरसायां सहस्रं तु सर्पाणाममितौजसाम्अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम् १९

20काद्र वेयास्तु बलिनः सहस्रममितौजसःसुपर्णवशगा ब्रह्मन् जज्ञिरे नैकमस्तकाः २०

21तेषां प्रधानभूतास्तु श्षोवासुकितक्षकाःशंखश्वेतो महापद्मः कम्बलाश्वतरौ तथा २१

22एलापुत्रस्तथा नागः कर्कोटकधनञ्जयौएते चान्ये च बहवो दन्दशूका विषोल्बणाः २२

23गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणःस्थलजाः पक्षिणोब्जाश्च दारुणाः पिशिताशनाः २३

24क्रोधात्तु पिशाचांश्च जनयामास महाबलान्गास्तु वै जनयामास सुरभीर्महिषीस्तथाइरावृक्षलतावल्लीस्तृणजातीश्च सर्वशः २४

25स्वसा तु यक्षरक्षांसि मुनिरप्सरसस्तथाअरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् २५

26एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाःतेषां पुत्राश्च पौत्राश्च शतशोथ सहस्रशः २६

27एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषे स्मृतः २७

28वैवस्वते च महति वारुणे वितते कृतौजुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते २८

29पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान्पुत्रत्वे कल्पयामास स्वयमेव पितामहःगन्धर्वभोगिदेवानां दानवानां च सत्तम २९

30दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम्तया चाराधितः सम्यक्काश्यपस्तपतां वरः ३०

31वरेण च्छन्दयामास सा च वव्रे ततो वरम्पुत्रमिन्द्र वधार्थाय समर्थममितौजसम् ३१

32स च तस्मै वरं प्रादाद्भार्यायै मुनिसत्तमःदत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ३२

33शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम्समाहितातिप्रयता शौचिनी धारयिष्यसि ३३

34इत्येवमुक्त्वा तां देवीं संगतः कश्यपो मुनिःदधार सा च तं गर्भं सम्यक्छोचसमन्विता ३४

35गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपिशुश्रूषुस्तामथागच्छद्विनयादमराधिपः ३५

36तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनःऊने वर्षशते चास्या ददर्शान्तरमात्मना ३६

37अकृत्वा पादयोः शौचं दितिः शयनमाविशत्निद्रा ं! चाहारयामास तस्याः कुक्षिं प्रविश्य सः ३७

38वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधासम्पीड्यमानो वज्रेण स रुरोदातिदारुणम् ३८

39मा रोदीरिति तं शक्रः पुनःपुनरभाषतसोऽभवत्सप्तधा गर्भस्तमिंद्र ः! कुपितः पुनः ३९

40एकैकं सप्तधा चक्रे वज्रेणारिविदारिणामरुतो नाम देवास्ते बभूवुरतिवेगिनः ४०

41यदुक्तं वै भगवता तेनैव मरुतोऽभवन्देवा एकोनपञ्चाशत्सहाया वज्रपाणिनः ४१

इति श्रीविष्णुपुराणे प्रथमेंशे एकविंशोऽध्यायः २१

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः २०अध्यायः २२

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata