विष्णुपुराणम् · Amsha 2
अध्यायः ६
Ask AIपराशर उवाचततश्च नरका विप्र भुवोधः सलिलस्य च ।पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने ॥ २,६.१ ॥
रौरवः सूकरो रोधस्तालो विशसनस्तथा ।महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ २,६.२ ॥
रुधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः ।असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २,६.३ ॥
तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः ।संदंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ २,६.४ ॥
श्वभोजनोथाप्रतिष्ठश्चाप्रचिश्च तथा परः ।इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २,६.५ ॥
यमस्य विषये घोराः शस्त्राग्निभयदायिनः ।पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ २,६.६ ॥
कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् ।यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २,६.७ ॥
भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम ।यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ २,६.८ ॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे ।प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ २,६.९ ॥
राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः ।तप्तकुण्डेस्वसृगामी हन्ति राजभटांश्च यः ॥ २,६.१० ॥
साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी ।तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ २,६.११ ॥
स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते ।अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २,६.१२ ॥
वेददूषयितायश्च वेदविक्रयकश्च यः ।अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ २,६.१३ ॥
चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ २,६.१४ ॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।स याति क्रिमिभक्षे वै क्रिमीशे च दुरिष्टकृत् ॥ २,६.१५ ॥
पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः ।लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥ २,६.१६ ॥
करोति कर्णिनो यश्च यश्च खङ्गादिकृन्नरः ।प्रयान्त्येते विशसने नरके भृशदरुणे ॥ २,६.१७ ॥
असत्प्रतिगृहीता तु नरके यात्यधोमुखे ।अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ २,६.१८ ॥
वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ २,६.१९ ॥
लाक्षामासरसानां च तिलानां लवणस्य च ।विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ २,६.२० ॥
मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् ।पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २,६.२१ ॥
रङ्गोपजीवी कैवर्तः कुम्डाशी गरदस्तथा ।सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ २,६.२२ ॥
अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः ।रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २,६.२३ ॥
मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ २,६.२४ ॥
रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये ।ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ २,६.२५ ॥
असिपत्रवनं याति वनच्छेदी वृथैव यः ।औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ २,६.२६ ॥
यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ २,६.२७ ॥
व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश्च यः ।सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २,६.२८ ॥
दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः ।पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ २,६.२९ ॥
एते चान्ये च नरकाः शतशोथ सहस्रशः ।येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २,६.३० ॥
यथैव पापान्येतानि तथान्यानि सहस्रशः ।भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥ २,६.३१ ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २,६.३२ ॥
अधः शिरोभिदृश्यन्ते नारकैर्दिवि देवताः ।देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ २,६.३३ ॥
स्थावराः क्रिमयोब्जाश्च पक्षिणः पशवो नराः ।धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश्च यथाक्रमम् ॥ २,६.३४ ॥
सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा ।सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ २,६.३५ ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ २,६.३६ ॥
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा ।तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २,६.३७ ॥
पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ २,६.३८ ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।यानि तेषामशेषाणां कृष्णानुस्मरणम्परम् ॥ २,६.३९ ॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २,६.४० ॥
प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् ।नारायणमवाप्नोति सद्यः पापक्षयन्नरः ।विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः ।मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते ॥ २,६.४२ ॥
वासुदेवे मनो यस्यजपहोमार्चनादिषु ।तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ २,६.४३ ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २,६.४४ ॥
तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो मुने ।न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ २,६.४५ ॥
मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः ।नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ २,६.४६ ॥
वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च ।कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ २,६.४७ ॥
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।तदेव कोपाय यतः प्रसादाय च जायते ॥ २,६.४८ ॥
तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।मनसः परिणामोयं सुखदुःखादिलक्षणः ॥ २,६.४९ ॥
ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते ।ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ २,६.५० ॥
विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ २,६.५१ ॥
एवमेतन्मयाख्यातं भवतो मण्डलं भुवः ।पातालानि च सर्वाणि तथैव नरका द्विज ॥ २,६.५२ ॥
समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः ।संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २,६.५३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे षष्ठोऽध्यायः (६)
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.