विष्णुपुराणम् · Amsha 2
अध्यायः १५
Ask AIपराशर उवाच ।इत्युक्ते मौनिनं भूयश्विन्तयानं महीपतिम् ।प्रत्युवाचाथ विप्रोऽसावदू तौन्तर्गतां कथाम् ।। 1 ।।
श्रूयतां नृपशाद्दूल! यदूगोतमृबुणा पुरा ।अवबोधं जनयता निदाघस्य महात्मनः ।। 2 ।।
ऋभुर्नामाभवत् पुत्रो ब्रह्मणः परमेष्ठिनः ।विज्ञाततत्त्वसद्रावो निसर्गादेव भूपते ।। 3 ।।
तस्य शिष्यो निदाघोऽबूत् पुलस्त्यतनयः पुरा ।प्रादादशेषविज्ञानं स तस्मै परया मुदा ।। 4 ।।
अवाप्यज्ञानत्त्वस्य न तस्यादूतैवासनाम ।स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ।। 5 ।।
देविकायास्तटे वीरनगरं नाम वै पुरम् ।समृद्धमतिरम्यं च पुलस्त्येन निवेशितम् ।। 6 ।।
रम्योपवनपर्य्यन्ते स तस्मिन् पार्थिवोत्तम !निदाघो नाम योगज्ञ ऋभुशिष्योऽवसत् पुरा ।। 7 ।।
दिव्येवर्षसहस्त्रे तु समतीतेऽस्य तत्पुरम् ।जगाम स ऋभुः शिष्यं निदाघमवलोककः ।। 8 ।।
स तस्य वैश्वदेवान्ते द्रारालोकनगोचरे ।स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः ।। 9 ।।
पर्क्षालिताङ घ्रिपाणिं च कृतासनपरिग्रहम् ।उवाच स द्रिजश्वेष्ठो भूज्यतामिति सादरम् ।। 10 ।।
ऋभुरुवाच ।भो विप्रवर्य्य! भोक्तव्यं यदन्नं भवतो गृहे ।तत् कथ्यतां कदन्नेषु न प्रीतिः सतत मम ।। 11 ।।
निदाघ उवाच ।भक्त-यावक-वाठ्यानामपूपानाञ्च मे गृहे ।यदू रोचते द्रिजश्रेष्ठ!तत् त्वं भुङ श्र्व यथेच्छया ।। 12 ।।
ऋभुरुवाच ।कदन्नानि द्रिजैतानि मृष्टमन्नं प्रयच्छ मे ।संयाव-पायसादीनि द्रप्स्यफाणितावन्ति च ।। 13 ।।
निदाघ उवाच ।हे हे शालिनि मदगेहे यत किञ्चिदतिशोभनम् ।भक्ष्योपसाधनं मष्टं तेनास्यान्नां प्रसाधय ।। 14 ।।
ब्राह्मण उवाच ।इत्युक्ता तेन सा पत्री मृष्टमन्नं द्रिजस्य यत् ।प्रसाधितवती तदू वै भर्त्तुर्वचनगौरवात् ।। 15 ।।
तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् ।निदाघः प्राह भूपाल! प्रश्रयावनतः स्थितः ।। 16 ।।
निदाघ उवाच ।अपि ते परमा तृप्तिरुत्पन्ना तुष्टिरेव च ।अपि ते मानसं खस्थमाहारेण कृतं द्रिज ।। 17 ।।
क्क निवासो भवान् विप्र ! क्क च गन्तु समुद्यतः ।आगम्यते च भवता यतस्तज्व द्रिजोच्यताम् ।। 18 ।।
ऋबुरुवाच ।क्षुदू यस्य तस्य भुक्तेऽन्ने तृप्तिर्ब्राह्मण! जायते ।न मे क्षु न्नाभवत् तृप्तिः कस्मान्मां परिपृच्छसि ।। 19 ।।
वह्निना पार्थिवे धातौ क्षयिते क्षु त्सनुद्भवः ।भवत्यम्भांस च क्षीणो नृणां तृड़पि जायते ।। 20 ।।
क्षुत्तृषौ देहधर्म्माख्ये न ममैते यतो द्रिज ।ततः क्षु त्सम्भवाभावात् तृप्तिरस्त्येव मे सदा ।। 21 ।।
मनसः स्वस्थता तुष्टिश्वित्तधर्म्माविमौ द्रिज ।चेतसो यस्य तत् पृच्छ पुमानेबिर्न युज्यते ।। 22 ।।
क्व निवासस्तवेत्युक्तं क्व गन्तासि स यत् त्वया ।कु तश्वागम्यते तत्र त्रितयेऽपि निबोध मे ।। 23 ।।
पुमान् सर्व्वगतो व्यापा आकाशवदयं यतः ।कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथम् ।। 24 ।।
नाहं गन्ता न चागन्ता नैकदेशनिकेतनः ।त्वं चान्येच न च त्वं त्वं नान्ये नैवाहमप्यहम् ।। 25 ।।
मष्टं न मष्टमप्येषा जिज्ञासा मे कृता तव ।किं वक्ष्यसीति तत्रापि श्रूयतां द्रिजसत्तम ।। 26 ।।
किमस्वादूथवा मृष्टं भुञ्जतोऽन्नं द्रिजोत्तम ।मृष्टमेव यदामृष्टं तदैवोदू गकारकम् ।। 27 ।।
अमृष्टं जायते मृष्टं मृष्टादुद्रिजते जनः ।आदिमध्यावसानेषु किमन्नं रुचिकारकम् ।। 28 ।।
मृन्मयं हि गृहं यदून्मृदा लिप्त स्थिरं भवेत् ।पार्थिवोऽयं तथा देहः पार्थिवैः परमाणभिः ।। 29 ।.यव-गोधूम-मुदूगादि घृतं तैलं पयो दधि ।गुड फलादीनि तथा पार्थिवाः परमाणवः ।। 30 ।।
तदेतदू भवता ज्ञात्वा मृष्टामृष्टविचारि यत् ।तन्मनः समातालम्बि कार्य्यं साम्यं हि मुक्तय ।। 31 ।।
इतायाकर्ण्य वच्स्तस्य परमार्थाश्रितं नृफ!प्रणिपत्य महाभागे निदाघो वाक्यमब्रवीत् ।। 32 ।।
प्रसीद मद्धितार्थाय कथ्यतां यस्त्वमागतः ।नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्रिज ।। 33 ।।
ऋभुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्रिज!इहागतोऽहं यास्यामि परमार्थस्तवोदितः ।। 34 ।।
एवमेकमिदं विद्धि न भेदि सकलं जगत् ।वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ।। 35 ।।
तथेत्युक्त्वा निदाघेन प्रणिपातपुरः सरम् ।पूजितः परया भतया इच्छातः प्रययावृभुः ।। 36 ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.