विष्णुपुराणम् · Amsha 2
अध्यायः १६
Ask AIऋबुर्वर्षसहस्त्र तु समतीते नरेश्वर!निदाघज्ञानदानाय तदेव नगरं ययौ ।। 1 ।।
नगरस्य वहिः सोऽथ निदाघं ददृशे मुनिः ।महाबलपरीवारे पुरं विशति पार्थिवे ।। 2 ।।
दूरे स्थितं महाभागं जंनसम्मर्द्द वर्ज्जकम् ।क्षु त्क्षामकण्ठमायान्तमराण्यात् ससमितुकुशम् ।। 3 ।।
दृष्वा निदाघं स ऋभुरुपगम्याभिवाद्य च ।उवाच कस्मादेकान्ते स्थीयते भवता द्रिज ।। 4 ।।
बो विप्र ! जनसम्मर्द्दो महानेष महनिष जनिश्वरे ।प्रविविक्षौ पुरं रम्यं तेनात्र स्थीयते मया ।। 5 ।।
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।कथ्यतां मे द्रिजश्वेष्ठ! त्वमभिज्ञो मतो मम ।। 6 ।।
योऽयं गजेन्द्रमुन्मत्तमद्रिश्वृङ्गसमुच्छिर्तम् ।अधिरूढो नरेन्द्रोऽयं परलोकस्तथेतरः ।। 7 ।।
एतौ हि गज-राजानौ युगपदू दशितौ मम ।बवता न विशेषेण पृथकूचिह्नपिलक्षणौ ।। 8 ।।
तत् कथ्यतां महाभाग ! विशेषो भवतानयोः ।ज्ञातु मिच्छाम्यहं कोऽत्र गजः को वा नराधिपः ।। 9 ।।
गजो योऽयमधो ब्रह्मन् ! उपर्य्यस्यैष भूपतिः ।।वाह्म-वाहकसाबन्धं को न जानाति वै द्रिज ।। 10 ।।
जानाम्यहं यथा ब्रह्म स्तथा मामवबोधम ।अवःशह्दनिगद्य किं किञ्चोद्ध्व मभिधीयते ।। 11 ।।
इत्युक्तः सहसारुह्म निदाघः प्राह त ऋबुम् ।श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ।। 12 ।।
उपर्य्यहं यथा राजा त्वमधः कूञ्जरो यथा ।अवबोधाय ते ब्रह्मन् ! दृष्टान्तो दसितो मया ।। 13 ।।
त्वं राजेव द्रिजश्वेष्ठ! स्थितोऽहं गजवद् यदि ।तदेतत् त्वं समाचक्ष्व कतमस्त्वमहं तता ।। 14 ।।
इत्युक्तः सत्वरं तस्य प्रगृह्म चरणावुभौ ।निदाघः प्राह भगवानाचार्य्यस्त्वमृबुध्रुर्वम् ।। 15 ।।
16नान्यस्यादू तसंस्कारस्कृतं मानसं तथा ।यथाचार्य्यस्य तन त्वां मन्ये प्राप्तमह गुरुम् ।। 16
तवोपदेशदानाय पूर्व्वशुश्रूषणादृतः ।गुरुस्तेऽहमृभुर्नाम्रा निदाघ! समुपागतः ।। 17 ।।
तदेतदुपदिष्टं सङ्क्ष पेण महामते ।परमार्थसारभूतं यददूतैमशेषतः ।। 18 ।।
एवमुक्त्वा ययौ विद्रान् निदाघं स ऋबुर्गुरुः ।नदाघोऽप्युपदेशीन तेनादूतैपरोऽभवत् ।। 19 ।।
सर्व्भूतान्यभेदेन ददृशे स तदान्मनः ।यथा ब्रह्मपरो मुक्तिपवाप परमां द्रिज ।। 20 ।।
तथा त्वमपि धर्म्मज्ञ ! तुल्यात्मरिपुबान्धवः ।भव सर्व्वगतं जानन्नात्मानमवनीपते ।। 21 ।।
सितनीलादिभेदेन यथैकः दृश्यते नभः ।भ्रान्तिदृष्टिभिरात्मापि तथैकं सन् पृथक् पृथक् ।। 22 ।।
एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोऽन्यत् ।सोऽहं स च त्वं स च सर्व्वमेत- दात्मखरूपं त्यज भेदमोहम् ।। 23 ।।
पराशर उवाच ।इतीरितस्तेन स राजवर्य्यस्तत्याज भेदं परमार्थदृष्टिः ।स चापि जातिस्मरणाप्तबोध-स्तत्रैव जन्मन्यपवर्गमाप ।। 24 ।।
इति भरतःनरेन्द्रसारवृत्तंकथयति यश्व श्वृणोति भक्तियुक्तः ।स विमलमतिरेति नात्ममोहंभवति च संसरणेषु मुक्तियोग्यः ।। 25 ।।
।। द्रितीयांशः सम्पूर्णः ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.