विष्णुपुराणम् · Amsha 2
अध्यायः १४
Ask AIश्रीपराशर उवाचनिशम्य तस्येति वचः परमार्थसमन्वितम् ।प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ २,१४.१ ॥
राजोवाचभगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः ।श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ २,१४.२ ॥
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु ।भवता दर्शितं विप्र तत्परं प्रकृतेर्महत् ॥ २,१४.३ ॥
नाहं वहामि शिबिकां शिबिका न मयि स्थिता ।शरीरमन्यदस्मत्तो येनेयं शिबिका धृता ॥ २,१४.४ ॥
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता ।प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ २,१४.५ ॥
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ २,१४.६ ॥
पूर्वमेव महाभागं कपिलर्षिमहं द्विज ।प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ २,१४.७ ॥
तदन्तरे च भवता यदेतद्वाक्यमीरितम् ।तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ २,१४.८ ॥
कपिलर्षिर्भगवतः सर्वभूतस्य वै द्विज ।विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ २,१४.९ ॥
स एव भगवान्नूनमस्माकं हितकाम्यया ।प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते ॥ २,१४.१० ॥
तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः ।तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ २,१४.११ ॥
ब्राह्मण उवाचभूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि ।श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ २,१४.१२ ॥
देवताराधनं कृत्वा धनसम्पदमिच्छति ।पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ २,१४.१३ ॥
कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् ।श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ २,१४.१४ ॥
आत्मा ध्येयः सदा भूप योगयुक्तैस्तथा परम् ।श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ २,१४.१५ ॥
श्रेयांस्येवमनेकानि शतशोय सहस्रसः ।सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ २,१४.१६ ॥
धर्माय त्यज्यते किन्तु परमार्थो धनं यदि ।व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥ २,१४.१७ ॥
पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर ।परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता ॥ २,१४.१८ ॥
एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे ।परमार्थो हि कार्याणि कारणानामशेषतः ॥ २,१४.१९ ॥
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ २,१४.२० ॥
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।परमार्थभूतं तत्रापि श्रूयतां गदतो मम ॥ २,१४.२१ ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ २,१४.२२ ॥
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ।निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ २,१४.२३ ॥
अनाशो परमार्थश्च प्राज्ञौरभ्युपगम्यते ।तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ २,१४.२४ ॥
तदेवाफलदं कर्म परमार्थो मतस्तव ।मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ २,१४.२५ ॥
ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् ।भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २,१४.२६ ॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २,१४.२७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः ।परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २,१४.२८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २,१४.२९ ॥
परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः ।न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ २,१४.३० ॥
तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् ।विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः ॥ २,१४.३१ ॥
वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः ।अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ २,१४.३२ ॥
एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः ।देवादिभेदेऽपध्वस्ते नास्त्येवावरणे हि सः ॥ २,१४.३३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्दशोऽध्यायः (१४)
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.