विष्णुपुराणम् · Amsha 2
अध्यायः १३
Ask AIश्रीमैत्रेय उवाच ।भगवन् ! सम्यगाख्यातं यत् पृष्टोऽसि मयाखलम् ।भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिम् ।। 1 ।।
विष्णवाधारं तथा चैतत् त्रैलोक्यं समवस्थितम् ।परमार्थस्तु तेनोक्तो यथाज्ञानं प्रधानतः ।। 2 ।।
यत्त्वोतद्भगवानाह भरतस्य महीपतेः ।कथयिष्यामि चरितं तन्माख्यातुमर्हसि ।। 3 ।।
भरतः स महीपालः शालग्रामेऽवसत् किलयोगयुक्तः समाधाय वासुदेवे सदा मनः ।। 4 ।।
पुण्यदेशप्रभावेण ध्यायतश्व सदा हरिम् ।कथन्तु नाभवन्मुक्तिर्यदभूत् स द्रिजः पुनः ।। 5 ।।
विप्रत्वे च कृतं तेन यद्भूयःसुमहात्मना ।भरतेन मुनिश्वेष्ठ! तत् सर्व्वं वक्तुमर्हसि ।। 6 ।।
पराशार अवाच ।शालग्रामे महाभागो भगवन्नयस्तमानसः ।स उवास चिरं कालं मैत्रेय! पृथिवीपतिः ।। 7 ।।
अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः ।अवाप परमां काष्ठां मनसश्चापि संयमे ।। 8 ।।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव !कृष्णा विष्णो ह्टषीकेशेत्याह राजा स केवलम् ।। 9 ।।
नान्यज्जागाद मैत्रेय! किञ्चित् स्वप्नान्तरेऽपि च ।एततूपरं तदर्थञ्च विना नान्यदचिन्तयत् ।। 10 ।।
समित्-पुष्प-कुशादानं चक्र देवक्रियाकृते ।नान्यानि चक्र कर्म्माणि निः सङ्गो योगतापसः ।। 11 ।।
जगाम सोऽबिषेकार्थमेकदा तु महानदीम् ।सस्नौ तत्र तदा चक्र स्नानस्यनन्तरक्रियाः ।। 12 ।।
अथातजगाम तत्तीर्थं जलं पात् पिपासिता ।आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ।। 13 ।।
ततः समभवत्तत्र पीतप्राय जले तया ।सिंहस्य नादः सुमहान् सर्व्वप्राणिभयङ्करः ।। 14 ।।
ततः सा सहसा त्रासादाप्लुता निम्नगातटम् ।अत्युज्वारोहणेनास्या नद्यां गर्भः पपात सः ।। 15 ।।
तमुह्ममानं वेगेन वीचिमालापरिप्लुतम् ।तजग्राह स नृपो गर्भात् पतितं मृगपोतकम् ।। 16 ।।
गर्भप्रव्युतिदोषेण प्रोत्तुङ्गाक्रमणोन च ।मैत्रेय! सापि हरिणी पपात च ममार च ।। 17 ।।
हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ।मृगपोतं समादाय निजमाश्वममागतः ।। 18 ।।
चकारानुदिनञ्चासौ मृगपोतस्यवै नृपः ।पोषण पुष्यमाणश्य स तेन वबृधे मुने ।। 19 ।।
चचाराश्रमपर्य्यन्तं तृणानि गहनेषु सः ।दूरं गत्वा च शाद्दूलत्रासादभ्याययौ पुनः ।। 20 ।।
प्रातर्गत्वातिदूरञ्च सायमायाद यथाश्वमम् ।पुनश्च भरतस्याभूदाश्वमस्योटजाजिरे ।। 21 ।।
तस्य तस्मिन्मृगे दूर-समीपपरिवर्त्तिनि ।आसीच्चेतः समायुक्तं न ययावन्यतो द्रिज ।। 22 ।।
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः ।ममत्वं स चकारोच्चैस्तस्मिन् हरिणबालके ।। 23 ।।
किं वृकैक्भक्षितो व्याघूः किं सिंहेन निपातितः ।चिरायमाणे निष्कान्ते तस्यासीदिति मानसम् ।। 24 ।।
एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ।प्रीतये मम जातोऽसौ क्व ममैणकबालकः ।। 25 ।।
विषाणाग्रण मदूबाहुकण्डूयनपरो हि सः ।क्षेमेणाभ्यागतोऽरण्यादिपि मां सुखयिष्यति ।। 26 ।।
एते लूनशिखास्तस्य दशनैरचिरोदूगतैः ।कुशाः कासा विराजन्ते वटवः सामगा इव ।। 27 ।।
इत्थं चिरगते तस्मिन् स चक्र मानसं मुनिः ।प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ।। 28 ।।
समाधिभङ्गस्तासीत् तन्ममत्वादृतात्मनः ।सन्त्यक्तराज्यभोगर्द्धिखजनस्यापि भूपतेः ।। 29 ।।
चपलं चपले तस्मिन् दूरगं दूरगामिनि ।मृगपतोऽभवज्वित्तं स्थैर्य्यवत्तस्य भूपतेः ।। 30 ।।
कालेन गच्छता सोऽथ कालञ्चक्र महीपतिः ।पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ।। 31 ।।
मृगमेव तदाद्राक्षीत् त्यजन् प्राणानसावपि ।तन्मयत्वेन मैत्रय! नान्यत् किञ्चिदचिन्तयत् ।। 32 ।।
ततश्व तत्कालकृतां भावनां प्राप्य तादृशीम् ।जम्बूमार्गे महारण्ये जातो जातिस्मरो मृगः ।। 33 ।।
जातिस्मरत्वादुद्रिग्नः संसारस्य द्रिजोत्तम!विहाय मातरं भूयः शालग्राममुपाययौ ।। 34 ।।
शुष्कैस्तृणैस्तथा पर्णौः स कुर्व्वन्नात्मपोषणम् ।मृगत्वहतुभूतस्य कर्म्मणो निष्कृतिं ययौ ।। 35 ।।
तत्र चोतसृष्टदेहोऽसौ जज्ञ जातिस्मरो द्रिजः ।सदाचारवतां शुद्ध योगिनां प्रवरे कुले ।। 36 ।।
अर्व्वविज्ञानसम्पन्नः सर्व्वशास्त्रार्थतत्त्ववित् ।अपश्यत् स च मैत्रेय ! आत्मानं प्रकृतेः परम् ।। 37 ।।
आत्मनोऽधिगतज्ञानो देवादीनि महामुने ।सर्व्वभूतान्यभेदेन स ददर्श महामतिः ।। 38 ।।
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्वुतिम् ।न ददर्श च कर्माणि शास्त्रणि जगृहे न च ।। 39 ।।
उक्तोऽपि बहुशः किञ्चिड़वाक्यमभाषत ।तदप्यसंस्कारगुणां ग्राम्यवाक्योक्तिसंश्रितम् ।। 40 ।।
अपध्वस्तवपुः सोऽपि मलिनाम्बरधृग् द्रिजः ।क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ।। 41 ।।
सम्मानना परां हानिं योगर्द्धेः कुरुते यतः ।जनेनावमतो योगी योगसिद्धिञ्च विन्दति ।। 42 ।।
तस्माज्वरेत वै योगी सतां मार्गमदूषयन् ।जना यथावमन्येरन् गच्छयुर्नैव सङ्गतिम् ।। 43 ।।
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः ।आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ।। 44 ।।
भुहूक्ते कुलम्षव्रीह्मादिशाकं वन्यं फलं कणान् ।यदू यदाप्रोति सुबहु तदत्ते कालसंयमम् ।। 45 ।।
पितर्युपरते सोऽथ भ्रातृ-भ्रातृव्य-बान्धवैः ।कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ।। 46 ।।
स तूक्षपीनावयवो जद़कारी च कर्मणि ।सर्वलोकोपकरणां बभूवाहारवेतनः ।। 47 ।।
[तं तादृशमसंस्कारं विप्राकृविचेष्टितम् ।क्षत्ता पृषतराजस्य काल्यै पशुमकल्पयत् ।। 48 ।।
रात्रौ तं समलङकृत्य वैशसस्य विधानतः ।अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ।। 49 ।।
ततः खड गं समादाय निशितं निशि सा तथा ।क्षत्तार क्रूरकर्माणमच्छिनत् कण्ठमूलतः ।स्वपार्षदयुता देवी पपौ रुधिरमुल्वणम् ।। 50 ।।
ततः सौवीरराजस्य प्रयातस्य महात्मनः ।विष्टिकर्ताथ मन्येत विष्टियोग्योऽयमित्यपि ।। 51 ।।
तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् ।]**[ एतदाकारबन्धनीदूयान्तर्गतबागः सर्वत्र पुस्तके न दृश्यते । श्रीधरेणाप्यस्य व्याख्या न कृता, अतः सर्वसम्मति शून्यत्वादयं बागो बन्धनीदूयगर्मै स्थापितः ।]तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ।क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ।। 52 ।।
स राजा शिविकारूढो गन्तूं कृतमतिर्द्रिज !बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ।। 53 ।।
श्रेयः किमत्र संसारे दुः खप्राये नृणामिति ।प्रष्टुं तं मोक्षधर्मज्ञ कपिलाख्यं महामुनिम् ।। 54 ।।
उवाह शिविकां तस्य क्षत्तुर्वचनचोदितः ।नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ।। 55 ।।
गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् ।जातिस्मणेऽसौ पापस्य क्षयकाम उवाह ताम् ।। 56 ।।
ययौ जड़गतिः सोऽथ युगमात्रवलोकनः ।कुर्वन् मतिमतां श्रेष्ठस्तदन्ये त्वरितं ययुः ।। 57 ।।
विलोक्य नृपतिः सोऽथ विषमां शिबिकागतिम् ।किमेतदित्याह समं गम्यतां शिबिकावहाः ।। 58 ।।
पुनस्तथैव शिबिकां विलोक्य विषमां हि सः ।नृपः किमेतदित्याह भवद भिर्गम्यतेऽन्यथा ।। 59 ।।
भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ।शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ।। 60 ।।
किं श्रान्तोऽस्यल्पमद्वानं त्वयोढा शिहिका मम ।किमायाससहो न त्वं पीनानसि निरीक्ष्यसे ।। 61 ।।
नाहं पीवान्न चैवोढा शिबिका भवतो मया ।न श्रान्तोऽस्मि न चायासः सोञव्योऽस्ति महीपते ।। 62 ।।
प्रत्यक्षं दृश्यसे पीवानद्यांपि शिबिका त्वयि ।श्रमश्व भारोदूहने भवत्येव हि देहिनाम् ।। 63 ।।
प्रत्यक्ष भवता भूप ! यदू दृष्ट मम तदूद ।बलवानबलश्चेति वाच्यं पश्वादू विशेषणम् ।। 64 ।।
त्वयोढ़ा शिबिका चेति त्वय्यद्यापि च संस्थिता ।मिथ्यैतदत्र तु भवाञ्छृणोतु वचनं मम ।। 65 ।।
भूमौ पादयुगस्यास्था जह्घ पाददूये स्थिते ।ऊरू जङ्घादूयावस्थौ तदाधारं तथोदरम् ।। 66 ।।
वक्षः स्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ ।स्कन्धाश्रितेयं शिबिका मम भारोऽत्र किकृतः ।। 67 ।।
शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् ।तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ।। 68 ।।
अहं त्वञ्च तथान्ये च भूतैरुह्माम पार्थिव ।गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ।। 69 ।।
कर्मवश्या गुणाश्चैते सत्त्वाद्या- पृथिवीपते !अविद्यासञ्चितं कर्म्म तज्वाशेषेषु जन्तुषु ।। 70 ।।
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।प्रवृद्धयपचयौ नास्य एकस्याखिलजन्तुषु ।। 71 ।।
यदा नोपचयस्तस्य न चैवापचये नृप!तदा पीवानसीतीत्थं कया युत्तया त्वयेरितम् ।। 72 ।।
भू-पाद-जङ्घा-क्ठ्यूरु-जठरादिषु संस्थिते ।शिबिकेयं यता स्कन्धे तथा भारः समस्त्वया ।। 73 ।।
तदान्यैर्जन्तुभर्भूप ! शिबिकोढा न केवलम् ।लै-द्रुम-गृहोत्थोऽपि पृथिवीसम्भवोऽपि वा ।। 74 ।।
यदा पुसः पृथग्भावः प्राकृतैः कारणौर्नृप !सोढव्यस्तु तदायासः कथं वा नृपते । मया ।। 75 ।।
यदूद्रव्या शिबिका चेयं तदूद्रव्यो भूतसंग्रहः ।भवतो मेऽखिलस्यास्य ममत्वेनोपबृ हितः ।। 76 ।।
एवमुक्त्वाभवन्मैनी स वहञ्छिबिकां द्रिज !सोऽपि राजावतीर्य्योर्व्यं तत्पादौ जगृहे त्वरन् ।। 77 ।।
भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्रिज!कथ्यतां को भवानत्र जालमरूपधरः स्थितः ।। 78 ।।
यो भवान् यन्निमित्तं वा यदागमनकारण्म् ।तत्सर्वं कथ्यतां विदून् ! मह्म शुश्रूषवे त्वया ।। 79 ।।
श्रूयतां कोऽहमित्येतदूक्तुं भूप! न शक्यते ।उपभोगनिमित्तञ्च सर्वत्र गमनक्रिया ।। 80 ।।
सुखदुः खोपभोगौ तु तौ देहाद्यु पपादकौ ।धर्माधर्मोद्भवौ भोक्तु जन्तुर्देहादिमृच्छति ।। 81 ।।
सर्वस्यैव हि बूपाल ! जन्तोः सर्वत्र कारणम् ।धर्माधर्मौ यतः कस्मात् कारणां पृच्छयते त्वया ।। 82 ।।
धर्माधमां न सन्देहः सर्वकार्य्येषु कारणम् ।उपभोगनिमित्तञ्च देहाद्द हान्तरागमः ।। 83 ।।
यत्त्वैतद भवता प्रोक्त कोऽहमित्येतदात्मनः ।वक्तु न शक्यते श्रोतु तन्ममेच्छा प्रवर्त्तते ।।84 ।।
योऽस्ति सोऽहमिति ब्रह्मन्! कथं वक्तुं न शक्यते ।आत्मन्येष न दोषाय शब्दोऽहमिति यो द्रिज ।। 85 ।।
शब्दोऽहमिति दोषाय आत्मन्येष तथैव तत् ।अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणाः ।। 86 ।।
जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुक नृप!एते नाहं यतः सर्वे वाङूनिष्पादनहेतवः ।। 87 ।।
किंहेतुभिर्वदत्येषा वागेवाहमिति स्वयम् ।तथापि वाग् नाहमेतद् वक्तु मित्थं न युज्यते ।। 88 ।।
पिण्डः पृथग् यतः पुसः शिरः पाण्यादिलक्षणाः ।ततोऽहमिति कुत्रैतां संज्ञां राजन्! करोम्यहम् ।। 89 ।।
यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम !तदैषोऽहमयञ्चान्यो वक्तुमेवमपीष्यते ।। 90 ।।
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।तदा हि को भवान् कोऽहमित्येतद् विफलं वचः ।। 91 ।।
त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः ।अयञ्च भवतो लोको न सदेतन्नृपोच्यते ।। 92 ।।
वृक्षदू दारु ततश्चैयं शिबिका त्वदधिष्ठिता ।किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथवा नृप ।। 93 ।।
वृक्षारूढो महाराजो नायं वदति ते जनः ।न च दारुणि सर्वस्त्वां ब्रवीति शिबिकागतम् ।। 94 ।।
शिबिका दारुसङ्गातो रचनास्थितिसंस्थितः ।आन्वष्यतां नृपश्वेष्ठ! तद्भदे शिबिका त्वया ।। 95 ।।
एवं छत्रशलाकानां पृथगूभागो विमृश्यताम् ।क्व यातं छत्रमित्येष न्यायस्त्वयि तथा मयि ।। 96 ।।
पुमान् स्त्री गौरजो वाजी कुञ्जरो विहगस्तरुः ।देहेषु लोकसंज्ञयं विज्ञया कर्म्महेतुषु ।। 97 ।।
पुमान्न देवो न नरो न पशुर्न च पादपः ।शरीराकृतिबेदास्तु भूपैते कर्म्मयोनयः ।। 98 ।।
वस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।तथान्यज्व नृपेत्थं तन्न सत्सङ्कल्पनामयम् ।। 99 ।।
यत्तु कालान्तरेणापि नान्यां संज्ञामुपैति वै ।परिणामादिसम्भूतां तदूस्तु नृप! तज्व किम् ।। 100 ।।
त्वं राजा सर्व्वलोकस्य पितुः पुत्रो रिपो रिपुः ।पत्न्याः पतिः पिता सूनोः किं त्वा भूप ! वदाम्यहम् ।। 101 ।।
त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् ।किमु पादादिकं त्वं वा तवैतत् किं महीपते ।। 102 ।।
समस्तावयवेभ्यस्त्वं पृथग् भूप ! व्यवस्थितः ।कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पार्थिव ।। 103 ।।
एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् ।पथक् करणनिष्पाद्य शक्यते नपते! कथम् ।। 104 ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.