श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda
सर्गः ८
Ask AIश्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
स तस्य मध्ये भवनस्य संस्थितोमहद्विमानं मणिरत्नचित्रितम्।प्रतप्तजाम्बूनदजालकृत्रिमंददर्श धीमान् पवनात्मजः कपिः॥ १॥
तदप्रमेयप्रतिकारकृत्रिमंकृतं स्वयं साध्विति विश्वकर्मणा।दिवं गते वायुपथे प्रतिष्ठितंव्यराजतादित्यपथस्य लक्ष्म तत्॥ २॥
न तत्र किंचिन्न कृतं प्रयत्नतोन तत्र किंचिन्न महार्घरत्नवत्।न ते विशेषा नियताः सुरेष्वपिन तत्र किंचिन्न महाविशेषवत्॥ ३॥
तपः समाधानपराक्रमार्जितंमनःसमाधानविचारचारिणम्।अनेकसंस्थानविशेषनिर्मितंततस्ततस्तुल्यविशेषनिर्मितम्॥ ४॥
मनः समाधाय तु शीघ्रगामिनंदुरासदं मारुततुल्यगामिनम्।महात्मनां पुण्यकृतां महर्द्धिनांयशस्विनामग्ऱ्यमुदामिवालयम्॥ ५॥
विशेषमालम्ब्य विशेषसंस्थितंविचित्रकूटं बहुकूटमण्डितम्।मनोऽभिरामं शरदिन्दुनिर्मलंविचित्रकूटं शिखरं गिरेर्यथा॥ ६॥
वहन्ति यत्कुण्डलशोभिताननामहाशना व्योमचरानिशाचराः।विवृत्तविध्वस्तविशाललोचनामहाजवा भूतगणाः सहस्रशः॥ ७॥
वसन्तपुष्पोत्करचारुदर्शनंवसन्तमासादपि चारुदर्शनम्।स पुष्पकं तत्र विमानमुत्तमंददर्श तद् वानरवीरसत्तमः॥ ८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.