श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda
सर्गः ७
Ask AIश्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
स वेश्मजालं बलवान् ददर्शव्यासक्तवैदूर्यसुवर्णजालम्।यथा महत्प्रावृषि मेघजालंविद्युत्पिनद्धं सविहङ्गजालम्॥ १॥
निवेशनानां विविधाश्च शालाःप्रधानशङ्खायुधचापशालाः।मनोहराश्चापि पुनर्विशालाददर्श वेश्माद्रिषु चन्द्रशालाः॥ २॥
गृहाणि नानावसुराजितानिदेवासुरैश्चापि सुपूजितानि।सर्वैश्च दोषैः परिवर्जितानिकपिर्ददर्श स्वबलार्जितानि॥ ३॥
तानि प्रयत्नाभिसमाहितानिमयेन साक्षादिव निर्मितानि।महीतले सर्वगुणोत्तराणिददर्श लंकाधिपतेर्गृहाणि॥ ४॥
ततो ददर्शोच्छ्रितमेघरूपंमनोहरं काञ्चनचारुरूपम्।रक्षोऽधिपस्यात्मबलानुरूपंगृहोत्तमं ह्यप्रतिरूपरूपम्॥ ५॥
महीतले स्वर्गमिव प्रकीर्णंश्रिया ज्वलन्तं बहुरत्नकीर्णम्।नानातरूणां कुसुमावकीर्णंगिरेरिवाग्रं रजसावकीर्णम्॥ ६॥
नारीप्रवेकैरिव दीप्यमानंतडिद्भिरम्भोधरमर्च्यमानम्।हंसप्रवेकैरिव वाह्यमानंश्रिया युतं खे सुकृतं विमानम्॥ ७॥
यथा नगाग्रं बहुधातुचित्रंयथा नभश्च ग्रहचन्द्रचित्रम्।ददर्श युक्तीकृतचारुमेघ-चित्रं विमानं बहुरत्नचित्रम्॥ ८॥
मही कृता पर्वतराजिपूर्णाशैलाः कृता वृक्षवितानपूर्णाः।वृक्षाः कृताः पुष्पवितानपूर्णाःपुष्पं कृतं केसरपत्रपूर्णम्॥ ९॥
कृतानि वेश्मानि च पाण्डुराणितथा सुपुष्पाण्यपि पुष्कराणि।पुनश्च पद्मानि सकेसराणिवनानि चित्राणि सरोवराणि॥ १०॥
पुष्पाह्वयं नाम विराजमानंरत्नप्रभाभिश्च विघूर्णमानम्।वेश्मोत्तमानामपि चोच्चमानंमहाकपिस्तत्र महाविमानम्॥ ११॥
कृताश्च वैदूर्यमया विहङ्गारूप्यप्रवालैश्च तथा विहङ्गाः।चित्राश्च नानावसुभिर्भुजङ्गाजात्यानुरूपास्तुरगाः शुभाङ्गाः॥ १२॥
प्रवालजाम्बूनदपुष्पपक्षाःसलीलमावर्जितजिह्मपक्षाः।कामस्य साक्षादिव भान्ति पक्षाःकृता विहङ्गाः सुमुखाः सुपक्षाः॥ १३॥
नियुज्यमानाश्च गजाः सुहस्ताःसकेसराश्चोत्पलपत्रहस्ताः।बभूव देवी च कृतासुहस्तालक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ १४॥
इतीव तद्गृहमभिगम्य शोभनंसविस्मयो नगमिव चारुकन्दरम्।पुनश्च तत्परमसुगन्धि सुन्दरंहिमात्यये नगमिव चारुकन्दरम्॥ १५॥
ततः स तां कपिरभिपत्य पूजितांचरन् पुरीं दशमुखबाहुपालिताम्।अदृश्य तां जनकसुतां सुपूजितांसुदुःखितां पतिगुणवेगनिर्जिताम्॥ १६॥
ततस्तदा बहुविधभावितात्मनःकृतात्मनो जनकसुतां सुवर्त्मनः।अपश्यतोऽभवदतिदुःखितं मनःसचक्षुषः प्रविचरतो महात्मनः॥ १७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.