Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः ४३

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः ४३

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥

देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।कृत्वा वसुमतीं राम वत्सरं समुपासत ॥१-४३-१॥

अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।उमापतिः पशुपती राजानमिदमब्रवीत् ॥१-४३-२॥

प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।शिरसा धारयिष्यामि शैलराजसुतामहम् ॥१-४३-३॥

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्॥१-४३-४॥

आकाशादपतद् राम शिवे शिवशिरस्युत ।अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥१-४३-५॥

विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् ।तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥१-४३-६॥

तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ।सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥

हिमवत्प्रतिमे राम जटामण्डलगह्वरे ।सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥१-४३-८॥

नैव सा निर्गमं लेभे जटामण्डलमन्ततः ।तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥१-४३-९॥

तामपश्यत् पुनस्तत्र तपः परममास्थितः ।स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥१-४३-१०॥

विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ।तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥१-४३-११॥

ह्लादिनी पावनी चैव नलिनी च तथैव च ।तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥१-४३-१२॥

सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ।तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥१-४३-१३॥

सप्तमी चान्वगात् तासां भगीरथरथं तदा ।भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥१-४३-१४॥

प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ।गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१-४३-१५॥

असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ।मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥१-४३-१६॥

पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा ।ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥१-४३-१७॥

व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा ।विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥१-४३-१८॥

पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः ।तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥१-४३-१९॥

दिदृक्षवो देवगणाः समीयुरमितौजसः ।सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥१-४३-२०॥

शतादित्यमिवाभाति गगनं गततोयदम् ।शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥१-४३-२१॥

विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा ।पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥

शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ।क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥१-४३-२३॥

विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः ।सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥१-४३-२४॥

मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः ।तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥१-४३-२५॥

व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ।तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥१-४३-२६॥

भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ।शापात् प्रपतिता ये च गगनाद् वसुधातलम् ॥१-४३-२७॥

कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ।धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः ॥१-४३-२८॥

पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे ।मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥१-४३-२९॥

कृताभिषेको गङ्गायां बभूव गतकल्मषः ।भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः ॥१-४३-३०॥

प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् ।देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥१-४३-३१॥

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ।सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥१-४३-३२॥

गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ।यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥१-४३-३३॥

जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥१-४३-३४॥

गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः ।तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥१-४३-३५॥

अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् ।ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः ॥१-४३-३६॥

पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ।गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३७॥

ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः ।तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥१-४३-३८॥

जगाम च पुनर्गङ्गा भगीरथरथानुगा ।सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा ॥१-४३-३९॥

रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ।भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ॥१-४३-४०॥

पितमहान् भस्मकृतानपश्यद् गतचेतनः ।अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥१-४३-४१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ४२सर्गः ४४

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu