श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ११९
Ask AIअनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। २.११९.१ ।।
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। २.११९.२ ।।
रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। २.११९.३ ।।
एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। २.११९.४ ।।
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। २.११९.५ ।।
अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। २.११९.६ ।।
रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २.११९.७ ।।
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। २.११९.८ ।।
गम्यतामनुजानामि रामस्यानुचरी भव ।कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। २.११९.९ ।।
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। २.११९.१० ।।
सा तथा समलंकृत्य सीता सुरसुतोपमा ।प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। २.११९.११ ।।
तथा तु भूषितां सीतां ददर्श वदतां वर: ।राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। २.११९.१२ ।।
न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। २.११९.१३ ।।
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। २.११९.१४ ।।
ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। २.११९.१५ ।।
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। २.११९.१६ ।।
तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। २.११९.१७ ।।
रक्षांसि पुरुषादानि नानारूपाणि राघव ।वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। २.११९.१८ ।।
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। २.११९.१९ ।।
एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। २.११९.२० ।।
इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। २.११९.२१ ।।
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ऺात्युत्तरशततम: सर्ग: ।। ११९ ।।
।। इत्ययोध्याकाण्ड: समाप्तः ।।।। श्रीसीतारामचन्द्रार्पणमस्तु ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.