Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Ayodhya Kanda
  6. सर्गः ११८

श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda

सर्गः ११८

Ask AI

सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। २.११८.१ ।।

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। २.११८.२ ।।

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। २.११८.३ ।।

किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। २.११८.४ ।।

यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।तामेव नृपनारीणामन्यासामपि वर्त्तते ।। २.११८.५ ।।

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। २.११८.६ ।।

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। २.११८.७ ।।

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। २.११८.८ ।।

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। २.११८.९ ।।

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। २.११८.१० ।।

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। २.११८.११ ।।

एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। २.११८.१२ ।।

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। २.११८.१३ ।।

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। २.११८.१४ ।।

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। २.११८.१५ ।।

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मयाकृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। २.११८.१६ ।।

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। २.११८.१७ ।।

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। २.११८.१८ ।।

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। २.११८.१९ ।।

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। २.११८.२० ।।

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २.११८.२१ ।।

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। २.११८.२२ ।।

तथा सीतासुपासीनामनसूया दृढव्रता ।वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। २.११८.२३ ।।

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।राघवेणेति मे सीते कथा श्रुतिमुपागता ।। २.११८.२४ ।।

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। २.११८.२५ ।।

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। २.११८.२६ ।।

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। २.११८.२७ ।।

तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। २.११८.२८ ।।

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। २.११८.२९ ।।

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। २.११८.३० ।।

अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।एवमेतन्नरपते धर्मेण तनया तव ।। २.११८.३१ ।।

तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। २.११८.३२ ।।

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। २.११८.३३ ।।

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। २.११८.३४ ।।

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। २.११८.३५ ।।

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। २.११८.३६ ।।

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।सदृशं चानुरूपं च महीपाल: पतिं मम ।। २.११८.३७ ।।

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। २.११८.३८ ।।

महायज्ञे तदा तस्य वरुणेन महात्मना ।दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। २.११८.३९ ।।

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। २.११८.४० ।।

तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। २.११८.४१ ।।

इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।तस्य मे दुहिता भार्या भविष्यति न संशय: ।। २.११८.४२ ।।

तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। २.११८.४३ ।।

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। २.११८.४४ ।।

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। २.११८.४५ ।।

सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। २.११८.४६ ।।

इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। २.११८.४७ ।।

ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। २.११८.४८ ।।

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। २.११८.४९ ।।

ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। २.११८.५० ।।

दीयमानां न तु तदा प्रतिजग्राह राघव: ।अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। २.११८.५१ ।।

तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। २.११८.५२ ।।

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। २.११८.५३ ।।

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.५४ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। ११८ ।।

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ११७सर्गः ११९

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu