Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Aranya Kanda
  6. सर्गः ५७

श्रीमद्वाल्मीकीय रामायणम् · Aranya Kanda

सर्गः ५७

Ask AI

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥

राक्षसं मृगरूपेण चरन्तं कामरूपिणम्।निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत॥ १॥

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्।क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः॥ २॥

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्।चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ ३॥

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना॥ ४॥

मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्।विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि॥ ५॥

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्।तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ ६॥

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः।काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्॥ ७॥

दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः।हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह॥ ८॥

अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने।जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥ ९॥

निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च।इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्॥ १०॥

निवर्तमानस्त्वरितो जगामाश्रममात्मवान्।आत्मनश्चापनयनं मृगरूपेण रक्षसा॥ ११॥

आजगाम जनस्थानं राघवः परिशङ्कितः।तं दीनमानसं दीनमासेदुर्मृगपक्षिणः॥ १२॥

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्।तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः।न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १३॥

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्।ततोऽविदूरे रामेण समीयाय स लक्ष्मणः॥ १४॥

विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना।स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्॥ १५॥

विहाय सीतां विजने वने राक्षससेविते।गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः॥ १६॥

उवाच मधुरोदर्कमिदं परुषमार्तवत्।अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्॥ १७॥

सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति।न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा॥ १८॥

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः।अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे॥ १९॥

अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे।जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥ २०॥

यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम्।वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्।अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल॥ २१॥

इदं हि रक्षो मृगसंनिकाशंप्रलोभ्य मां दूरमनुप्रयातम्।हतं कथंचिन्महता श्रमेणस राक्षसोऽभून्म्रियमाण एव॥ २२॥

मनश्च मे दीनमिहाप्रहृष्टंचक्षुश्च सव्यं कुरुते विकारम्।असंशयं लक्ष्मण नास्ति सीताहृता मृता वा पथि वर्तते वा॥ २३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ५६सर्गः ५८

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu