Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Samaveda
  5. Uttararchika
  6. पञ्चमप्रपाठकः · प्रथमोऽर्द्धः

सामवेदसंहिता (कौथुमीया) · Uttararchika

पञ्चमप्रपाठकः · प्रथमोऽर्द्धः

संस्कृतEnglish
Ask AI

१

शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन ।कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५ ॥

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां ।तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥११७६ ॥

चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ ११७७ ॥

२

एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।वर्धन्तो अस्य वीर्यं ॥ ११७८ ॥

पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।ते नो धत्त सुवीर्यं ॥ ११८१ ॥

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।देवानां योनिमासदं ॥ ११८० ॥

मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः ।अनु विप्रा अमादिषुः ॥ ११८१ ॥

देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।स गोभिर्वासयामसि ॥ ११८२ ॥

पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।परि गव्यान्यव्यत ॥ ११८३ ॥

मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।इन्दो सखायमा विश ॥ ११८४ ॥

नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं ।भक्षीमहि प्रजामिषं ॥ ११८५ ॥

वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।सहो नः सोम पृत्सु धाः ॥ ११८६ ॥

३

सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।वायोरिन्द्रस्य निष्कृतं ॥ ११८७ ॥

पवमानमवस्यवो विप्रमभि प्र गायत ।सुष्वाणं देववीतये ॥ ११८८ ॥

पवन्ते वाजसातये सोमाः सहस्रपाजसः ।गृणाना देववीतये ॥ ११८९ ॥

उत नो वाजसातये पवस्व बृहतीरिषः ।द्युमदिन्दो सुवीर्यं ॥ ११९० ॥

अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।वि वारमव्यमाशवः ॥ ११९१ ॥

ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं ।सुवाना देवास इन्दवः ॥ ११९२ ॥

वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः ।दधन्विरे गभस्त्योः ॥ ११९३ ॥

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।विश्वा अप द्विषो जहि ॥ ११९४ ॥

अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।योनावृतस्य सीदत ॥ ११९५ ॥

४

सोमा असृग्रमिन्दवः सुता ऋतस्य धारया ।इन्द्राय मधुमत्तमाः ॥ ११९६ ॥

अभि विप्रा अनूषत गावो वत्सं न धेनवः ।इन्द्रं सोमस्य पीतये ॥ ११९७ ॥

मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।सोमो गौरी अधि श्रितः ॥ ११९८ ॥

दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।सोमो यः सुक्रतुः कविः ॥ ११९९ ॥

यः सोमः कलशेष्वा अन्तः पवित्र आहितः ।तमिन्दुः परि षस्वजे ॥ १२०० ॥

प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।जिन्वन्कोशं मधुश्चुतं ॥ १२०१ ॥

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां ।हिन्वानो मानुषा युजा ॥ १२०२ ॥

आ पवमान धारय रयिं सहस्रवर्चसं ।अस्मे इन्दो स्वाभुवं ॥ १२०३ ॥

अभि प्रिया दिवः कविर्विप्रः स धारया सुतः ।सोमो हिन्वे परावति ॥ १२०४ ॥

५

उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।वाणस्य चोदया पविं ॥ १२०५ ॥

प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।यदव्य एषि सानवि ॥ १२०६ ॥

अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।पवमानं मधुश्चुतं ॥ १२०७ ॥

आ पवस्व मदिन्तम पवित्रं धारया कवे ।अर्कस्य योनिमासदं ॥ १२०८ ॥

स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।एन्द्रस्य जठरं विश ॥ १२०९ ॥

६

अया वीती परि स्रव यस्त इन्दो मदेष्वा ।अवाहन्नवतीर्नव ॥ १२१० ॥

पुरः सद्य इत्थाधिये दिवोदासाय शंबरं ।अध त्यं तुर्वशं यदुं ॥ १२११॥

परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।क्षरा सहस्रिणीरिषः ॥ १२१२ ॥

७

अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।गच्छन्निन्द्रस्य निष्कृतं ॥ १२१३ ॥

महो नो राय आ भर पवमान जही मृधः ।रास्वेन्दो वीरवद्यशः ॥ १२१४ ॥

न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् ।यत्पुनानो मखस्यसे ॥ १२१५ ॥

८

अया पवस्व धारया यया सूर्यमरोचयः ।हिन्वानो मानुषीरपः ॥ १२१६ ॥

अयुक्त सूर एतशं पवमानो मनावधि ।अन्तरिक्षेण यातवे ॥ १२१७ ॥

उत त्या हरितो रथे सूरो अयुक्त यातवे ।इन्दुरिन्द्र इति ब्रुवन् ॥१२१८ ॥

९

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं ।यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥ १२१९ ॥

प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ १२२० ॥

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥१२२१ ॥

१०

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत् ॥१२२२ ॥

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।द्युम्नी श्लोकी स सोम्यः ॥ १२२३ ॥

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।ववक्ष उग्रो अस्तृतः ॥ १२२४ ॥

११

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।पुनाहीन्द्राय पातवे ॥ १२२५ ॥

तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।पवमानस्य मरुतः ॥ १२२६ ॥

दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।सुनोता मधुमत्तमं ॥ १२२७ ॥

१२

धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा ॥ १२२८ ॥

शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु ।इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥ १२२९ ॥

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः ॥ १२३० ॥

१३

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ १२३१ ॥

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥ १२३२ ॥

१४

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३ ॥

तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः ।उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ १२३४ ॥

१५

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।वायुमा रोह धर्मणा ॥ १२३५ ॥

पवमान नि तोशसे रयिं सोम श्रवाय्यं ।इन्दो समुद्रमा विश ॥ १२३६ ॥

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।नुदस्वादेवयुं जनं ॥ १२३७ ॥

१६

अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥

वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥

परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः ।धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥

१७

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ १२४१ ॥

शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ १२४२ ॥

दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥ १२४३ ॥

१८

प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियं ।अग्ने रथं न वेद्यं ॥ १२४४ ॥

कविमिव प्रशंस्यं यं देवास इति द्विता ।नि मर्त्येष्वादधुः ॥ १२४५ ॥

त्वं यविष्ठ दाशुषो नॄँ: पाहि शृणुही गिरः ।रक्षा तोकमुत त्मना ॥ १२४६ ॥

१९

एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ १२४७ ॥

अभि हि सत्य सोमपा उभे बभूथ रोदसी ।इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥ १२४८ ॥

त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि ।हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ १२४९ ॥

२०

पुरां भिन्दुर्युवा कविरमितौजा अजायत ।इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥ १२५० ॥

त्वं वलस्य गोमतोऽपावरद्रिवो बिलं ।त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ १२५१ ॥

इन्द्रमीशानमोजसाभि स्तोमैरनूषत ।सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ १२५२ ॥

Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

चतुर्थप्रपाठकः · द्वितीयोऽर्द्धःपञ्चमप्रपाठकः · द्वितीयोऽर्द्धः

Related on Dharmasthan

  • Samaveda: contents and about
  • Rigveda
  • The Vedas
  • Gayatri Mantra
  • All mantras