सामवेदसंहिता (कौथुमीया) · Purvarchika
तृतीयप्रपाठकः · पञ्चमी दशतिः
Ask AIअभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ २३३ ॥
त्वामिद्धि हवामहे सातौ वाजस्य कारवः।त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ २३४ ॥
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ २३५ ॥
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ २३६ ॥
तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥ २३७ ॥
तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं ॥ २३८ ॥
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ २३९ ॥
त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ २४० ॥
न हि वश्चरमं च न वसिष्ठः परिमंस्ते ।अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥ २४१ ॥
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ २४२ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.