सामवेदसंहिता (कौथुमीया) · Purvarchika
तृतीयप्रपाठकः · चतुर्थी दशतिः
Ask AIअतीहि मन्युषाविणं सुषुवांसमुपेरय ।अस्य रातौ सुतं पिब ॥ २२३ ॥
कदु प्रचेतसे महे वचो देवाय शस्यते ।तदिध्यस्य वर्धनं ॥ २२४ ॥
उक्थं च न शस्यमानं नागो रयिरा चिकेत ।न गायत्रं गीयमानं ॥ २२५ ॥
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः ।हरिवान्त्सुतानां सखा ॥ २२६ ॥
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः ।महां इव युवजानिः ॥ २२७ ॥
कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः ।दीर्घं सुतं वाताप्याय ॥ २२८ ॥
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।तवेदं सख्यमस्तृतं ॥ २२९ ॥
वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः ।त्वं नो जिन्व सोमपाः ॥ २३० ॥
एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः ।सत्राजिदुग्र पौंस्यम्॥ २३१ ॥
एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।एवा ते राध्यं मनः ॥ २३२ ॥
Samaveda by the Vedic rishis (seers), whose verses the Samaveda gathers to be sung. Sanskrit text of the Kauthuma Samhita (1,875 verses: the Purvarchika with its Aranyaka and Mahanamni verses, and the Uttararchika), as transcribed by the contributors of Sanskrit Wikisource. Verse 1315, missing from its chapter page, is taken from Wikisource’s accented text of the whole Samhita, as printed there.. Source: Sanskrit Wikisource. The Samaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.