ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१०९
Ask AIऋषिः — जुहूर्ब्रह्मजाया, ब्राह्मः ऊर्ध्वनाभा वा · दे. विश्वे देवाः। त्रिष्टुप्, ६-७ अनुष्टुप्
तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥१॥
सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् ।न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः ।भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥४॥
ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
पुनर्वै देवा अददुः पुनर्मनुष्या उत ।राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥६॥
पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् ।ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥७॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.