ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१०८
Ask AIऋषिः — पणयोऽसुराः · दे. सरमा देवता। २, ४, ६, ८, १०-११ सरमा देवशुनी ऋषिका। पणयो देवता। त्रिष्टुप्।
किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः ।कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥१॥
इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्वः ।अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥२॥
कीदृङ्ङिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् ।आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥३॥
नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् ।न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥४॥
इमा गावः सरमे या ऐच्छः परि दिवो अन्तान्सुभगे पतन्ती ।कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा ॥५॥
असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः ।अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् ॥६॥
अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः ।रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥७॥
एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः ।त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥८॥
एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन ।स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम ॥९॥
नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः ।गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥१०॥
दूरमित पणयो वरीय उद्गावो यन्तु मिनतीरृतेन ।बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥११॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.