अथर्ववेदसंहिता (शौनकीया) · Kanda 5
सूक्तम् ५.४
Ask AIऋषिः — भृग्वङ्गिराः · दे. कुष्ठो, यक्ष्मनाशनम्। अनुष्टुप्, ५ भुरिक्, ६ गायत्री, १० उष्णिग्गर्भा निचृत्।
यो गिरिष्वजायथा वीरुधां बलवत्तमः ।कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
सुपर्णसुवने गिरौ जातं हिमवतस्परि ।धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।तमु मे अगदं कृधि ॥६॥
देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.