अथर्ववेदसंहिता (शौनकीया) · Kanda 4
सूक्तम् ४.४
Ask AIऋषिः — अथर्वा · दे. वनस्पतिः, १-२ सूर्यः, प्रजापतिः, ४ इन्द्रः, ५ आपः, सोमः, ६ अग्निः, सरस्वती, ब्रह्मणस्पतिः।
यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे ।तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥
उदुषा उदु सूर्य उदिदं मामकं वचः ।उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥
यथा स्म ते विरोहतोऽभितप्तमिवानति ।ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥
उच्छुष्मौषधीनां सारा ऋषभाणाम् ।सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥
अपां रसः प्रथमजोऽथो वनस्पतीनाम् ।उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥
अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥
आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥
अश्वस्याश्वतरस्याजस्य पेत्वस्य च ।अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.