अथर्ववेदसंहिता (शौनकीया) · Kanda 4
सूक्तम् ४.३
Ask AIऋषिः — अथर्वा · दे. व्याघ्रादयः
उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥
परेणैतु पथा वृकः परमेणोत तस्करः ।परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥
अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।आत्सर्वान् विंशतिं नखान् ॥३॥
व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥
यो अद्य स्तेन आयति स संपिष्टो अपायति ।पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥
यत्संयमो न वि यमो वि यमो यन् न संयमः ।इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.