अथर्ववेदसंहिता (शौनकीया) · Kanda 19
सूक्तम् १९.४४
Ask AIऋषिः — भृगुः · दे. आञ्जनम्,८-९ वरुणः। अनुष्टुप्, .....
आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥
यो हरिमा जायान्योऽङ्गभेदो विसल्पकः ।सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥
प्राण प्राणं त्रायस्वासो असवे मृड ।निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥
सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥
वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥
बह्विदं राजन् वरुणानृतमाह पूरुषः ।तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥
यदापो अघ्न्या इति वरुणेति यदूचिम ।तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.