अथर्ववेदसंहिता (शौनकीया) · Kanda 15
सूक्तम् १५.२
Ask AIऋषिः — अथर्वा · दे. अध्यात्मम्, व्रात्यः। १, ६, ९, १७, २५, ३० साम्न्यनुष्टुप्, - - - - -- -
1स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१]
2तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२]
3बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३]
4बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४]
5तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५]
भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं।।६।।
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः।।७।।
8कीर्तिश्च यशश्च पुरःसरौऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.१॥ [८]
9स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९]
10तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०]
11यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११]
12यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२]
13तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३]
14अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदःकीर्तिश्च यशश्च पुरःसरौ ।ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.२॥ [१४]
15स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५]
16तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६]
17वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७]
18वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८]
19तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९]
20अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदःकीर्तिश्च यशश्च पुरःसरौ ।ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.३॥ [२०]
21स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१]
22तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२]
23श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३]
24श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४]
25तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५]
26श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः [२६]
27कीर्तिश्च यशश्च पुरःसरौ । [२७]
28ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१५.२.४॥ [२८]
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.