अथर्ववेदसंहिता (शौनकीया) · Kanda 11
सूक्तम् ११.९
Ask AIऋषिः — काङ्कायनः · दे. अर्बुदिः। अनुष्टुप्, १ ........
ये बाहवो या इषवो धन्वनां वीर्याणि च ।असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥
उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥
अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥
सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥
प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती ।पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥
अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
10अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}
आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥
मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥
प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
श्वन्वतीरप्सरसो रूपका उतार्बुदे ।अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥
खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।सर्पा इतरजना रक्षांसि ॥१६॥
चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।स्वभ्यसा ये चोद्भ्यसाः ॥१७॥
उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥
प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥
20तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६}
उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥
ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।तमसा ये च तूपरा अथो बस्ताभिवासिनः ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥
वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
26तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.