अथर्ववेदसंहिता (शौनकीया) · Kanda 11
सूक्तम् ११.१०
Ask AIऋषिः — भृग्वङ्गिराः · दे. त्रिषन्धिः। अनुष्टुप्, १ ........
उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥
ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥
अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥
अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥
उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥
शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥
धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥
यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥
10बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८}
येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥
सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥
बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥
सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥
सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥
वायुरमित्राणामिष्वग्राण्याञ्चतु ।इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥
क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
त्रिषन्धे तमसा त्वममित्रान् परि वारय ।पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥
20शितिपदी सं पतत्वमित्राणाममूः सिचः ।मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}
मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।अनया जहि सेनया ॥२१॥
यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥
ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥
ये रथिनो ये अरथा असादा ये च सादिनः ।सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।विविद्धा ककजाकृता ॥२५॥
मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥
27यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.