अथर्ववेदसंहिता (शौनकीया) · Kanda 11
सूक्तम् ११.४
Ask AIऋषिः — भार्गवो वैदर्भिः · दे. प्राणः । - - - - -- -
प्राणाय नमो यस्य सर्वमिदं वशे ।यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥
नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥
यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥
यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः ।सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥
अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥
नमस्ते अस्त्वायते नमो अस्तु परायते ।नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥
नमस्ते प्राण प्राणते नमो अस्त्वपानते ।पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥
या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी ।अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥
10प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् ।प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११}
प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥
प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते ।प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥
प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥
अपानति प्राणति पुरुषो गर्भे अन्तरा ।यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥
प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥
आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत ।ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥
यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः ।सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥
यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥
20अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२}
एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्।न रात्री नाहः स्यान् न व्युच्छेत्कदा चन ॥२१॥
अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥
यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥
यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥
ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते ।न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥
26प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि ।अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.