Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Atharvaveda
  5. Kanda 11
  6. सूक्तम् ११.३

अथर्ववेदसंहिता (शौनकीया) · Kanda 11

सूक्तम् ११.३

संस्कृतEnglish
Ask AI

ऋषिः — अथर्वा · दे. ओदनः ( बार्हस्पत्योदनः) (त्रयः पर्यायाः) । - - - - -- -

तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥

द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥

चक्षुर्मुसलं काम उलूखलम् ॥३॥

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥

अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥

कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥

श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥

त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥

खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥

आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥

इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥

सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥

ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥

ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥

ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥

बृहदायवनं रथन्तरं दर्विः ॥१६॥

ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥

चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥

ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥

यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥

यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥

तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् ॥२२॥

स य ओदनस्य महिमानं विद्यात्॥२३॥

नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥

यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥

ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥

त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥

पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥

प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥

नैवाहमोदनं न मामोदनः ॥३०॥

31ओदन एवौदनं प्राशीत्॥३१॥ {८}

32ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]

33ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बधिरो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]

34ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।अन्धो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]

35ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]

36ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अग्नेर्जिह्वया ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]

37ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।दन्तास्ते शत्स्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतुभिर्दन्तैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]

38ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।प्राणापानास्त्वा हास्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सप्तऋषिभिः प्राणापानैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]

39ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अन्तरिक्षेण व्यचसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]

40ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।विद्युत्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।दिवा पृष्ठेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]

41ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।कृष्या न रात्स्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।पृथिव्योरसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]

42ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।उदरदारस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्येनोदरेण ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]

43ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।अप्सु मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।समुद्रेण वस्तिना ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]

44ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ऊरू ते मरिष्यत इत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।मित्रावरुणयोरूरुभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]

45ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।स्रामो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।त्वष्टुरष्ठीवद्भ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]

46ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बहुचारी भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अश्विनोः पादाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]

47ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।सर्पस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सवितुः प्रपदाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]

48ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ब्राह्मणं हनिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतस्य हस्ताभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]

49ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}

50एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]

51ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]

52एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]

53तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]

54स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]

55न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]

56न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}

Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सूक्तम् ११.२सूक्तम् ११.४

Related on Dharmasthan

  • Atharvaveda: contents and about
  • Rigveda
  • The four Vedas
  • The Rigveda’s wedding hymn of Surya (10.85), the source of Book 14
  • The Purusha Sukta in the Rigveda (10.90), found again as Atharvaveda 19.6
  • All mantras
  • Shlokas
  • Surya mantras and stotrams