Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 6
  6. अध्यायः १

विष्णुपुराणम् · Amsha 6

अध्यायः १

संस्कृतEnglish
Ask AI

मैत्रेय उवाच ।व्याख्याता भवता सर्ग-वंश-मन्वन्तरस्थितः ।वंशानुचरितञ्चवै विस्तरेण महामुने ।। ६-१-१ ।।

श्रोतुमिच्छाम्यहं त्वत्तो यथावदूपसंह्टतिम् ।महाप्रलयसंस्थानं कल्पान्ते च महामुने ।। ६-१-२ ।।

पराशा उवाच ।मैत्रेय श्रुयतां मत्तो यथावदुपसंह्टतिः ।कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ।। ६-१-३ ।।

अहोरात्रं पितणान्तु मासोऽब्दस्त्रिदिवौकसामचतुर्युगसहस्त्र तु ब्रह्मणो द्रे द्रिजोत्तम ।। ६-१-४ ।।

कृतं त्रेता द्रापरश्व कलिश्चैव चतुर्युगम् ।दिव्यैर्वर्षसहस्त्रैस्तु तदू द्रादशभिरुच्यते ।। ६-१-५ ।।

चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।आद्य कृतयुगं मुक्त्वा मैत्रेयान्ते तथा कलिम् ।। ६-१-६ ।।

आद्ये कृतयुगो सर्गा ब्रह्मणा क्रियते यतःक्रियते चोपसंहारस्तथान्ते च कलौ युगे ।। ६-१-७ ।।

मैत्रेय उवाच ।कलेः स्वरूपं भगवन् विस्तरादू वक्तुमर्हसि ।धर्म्मश्वतुष्पाद्भगवन यस्मिन विप्लवमृच्छति ।। ६-१-८ ।।

पराशर उवाच ।कलेः खरूपं मैत्रेय यद्भवान् प्रष्टुमिच्छति ।तन्निबोध समासन्नं वर्त्तते यन्महामुने ।। ६-१-९ ।।

वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।नसाम-ऋगू-यजुर्व्वेदविनिष्पादनहेतुका ।। ६-१-१० ।।

विवाहा न कलौ धर्म्म्या न शिष्य-गुरुसंस्थितिः ।नि दाम्पत्यक्रमो नैव वह्निदैवात्मकः क्रमः ।। ६-१-११ ।।

यत्र तत्र कुले जातो बली सर्व्वेस्वरः कलौ ।सर्व्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ।। ६-१-१२ ।।

येन कैनैव योगेन द्रिजातिर्दीक्षितः कलौ ।यौव सैव च मैत्रेय प्रायश्वित्तक्रिया कलौ ।। ६-१-१३ ।।

सर्व्वमेव कलौ शास्त्रं यस्य यदूवचनं द्रिज ।देवाताश्व कलौ सर्व्वाः सर्व्वः सर्व्वस्य चाश्रमः ।। ६-१-१४ ।।

उपवासस्तथायासो वित्तोतूसर्गस्तथा कलौ ।धर्म्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ।। ६-१-१५ ।।

वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ।। ६-१-१६ ।।

सुवर्णमणिरत्रादौ वस्त्रे चापि क्षयं गते ।कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ।। ६-१-१७ ।।

परित्यक्षन्ति भर्त्तारं वित्तहीनं तथा स्त्रियः ।भर्त्ता भविष्यति कलौ वित्तवानेव योषिताम् ।। ६-१-१८ ।।

योयो ददाति बहुल सस स्वामी तदा नृणाम् ।स्वामित्वहेतुः सम्बन्ध भावी नाभिजनस्तदा ।। ६-१-१९ ।।

गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः ।अर्थाश्वात्मोपभोगान्ता भविष्यन्ति कलौ युगे ।। ६-१-२० ।।

स्त्रियः कलौ भविष्यन्ति स्वैरिणयो ललितस्पृहाः ।अन्यायावाप्तवित्तेषु पुरुषाश्व स्पृहालवः ।। ६-१-२१ ।।

अभ्यर्थितोऽपि सुह्टदा स्वार्थहानिं न मानवः ।पणार्द्धार्द्धार्द्धमात्रेऽपि करिष्यति तदा द्रिज ।। ६-१-२२ ।।

समानं पौरुषञ्चतो भावि विप्र षु वै कलौ ।क्षीरप्रदानसम्बन्धि भावि गोषु च गौरवम् ।। ६-१-२३ ।।

अनावृष्टिभियप्रायाः प्रजाः क्षुद्भयकातराः ।भविष्यन्ति तदा सर्व्वा गगनासक्तदृष्टयः ।। ६-१-२४ ।।

कन्दपर्णफलाहारास्तापसा इव मानवाः ।आत्मानं पातयिष्यन्ति तदा वृष्ट्यादिदुः खिताः ।। ६-१-२५ ।।

दुर्भिक्षमेव सततं तदा क्ले शमनीश्वराः ।प्रापूस्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ।। ६-१-२६ ।।

अस्त्रानबोजिनो नाग्रिदेवतातिथिपूजनूम् ।करिष्यन्ति कलौ प्राप्ते न च पिव्योदकक्रियाम् ।। ६-१-२७ ।।

लोलुपा ह्रस्वदेहाश्व वह्वन्नादनतत्पराः ।बहुप्रजाल्पभाग्याश्व भविष्यन्ति कलौ स्त्रियः ।। ६-१-२८ ।।

उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनं स्त्रियः ।कुर्व्वन्त्यो गुरुभर्त्तृणामाज्ञां भेतूस्यन्त्यनादृताः ।। ६-१-२९ ।।

स्वपोषणपराः क्षुद्रा देहसंस्कारवर्ज्जिताः ।परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ।। ६-१-३० ।।

दुः शीला दुष्टशीलेषु कुर्व्वन्त्यः सततं स्पृहाम् ।असदूवुत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ।। ६-१-३१ ।।

वेदादानं करिष्यन्ति वटवश्व तदाव्रताः ।गुहस्थाश्व न होष्यन्ति न दास्यन्त्युचितान्यपि ।। ६-१-३२ ।।

वनावासा भविष्यन्ति ग्राम्याहारपरिग्रहाः ।भिक्षवश्वापि मित्रादिस्नेहसम्बन्धयन्त्रिताः ।। ६-१-३३ ।।

अरक्षितारो हर्त्तारः शुल्कव्याजेन पार्थिवाः ।हारिणो जनवित्तानां संप्राप्ते तु कलो युगे ।। ६-१-३४ ।।

यो योऽश्वरथनागाढ्यः स स राजा भविष्यति ।यश्व यश्वाबलः सर्व्वः स स भृत्यः कलौ युगे ।। ६-१-३५ ।।

वैश्याः कृषिवाणिज्यादि सन्त्यज्य निजकर्म्म यत्शूद्रवृत्त्या प्रवत्स्यन्ति कारुकर्म्मोपजीविनः ।। ६-१-३६ ।।

भैक्ष्यव्रतास्तथा शूद्रा प्रब्रज्यालिङ्गिनोऽधमाः ।पाषण्डसंश्रयाः वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ।। ६-१-३७ ।।

दुर्भिक्षकरपीड़ाबिरतीवोपहता जनाः ।गवेधुककदन्नाद्यान् देशान् यास्यन्ति दुः खिताः ।। ६-१-३८ ।।

वेदमार्गे प्रलीने च पाषण्डाढये ततो जने ।अधर्म्मवृद्धया लोकानां स्वल्पमायुर्भविष्यति ।। ६-१-३९ ।।

अशास्त्रविहित्तं घोरं तप्यमानेषु वै तपः ।नरेषु नृपदोषेण बालमृत्युर्भविष्यति ।। ६-१-४० ।।

भवित्री योषितां सूतिः पञ्चषटूसप्तवार्षिकी ।नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ।। ६-१-४१ ।।

पतितोद्भवश्व भविता तदा द्रादशवार्षिकः ।नातिजीवति वै कश्वित् कलौ वर्षाणि विंशतिम् ।। ६-१-४२ ।।

अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तः करणाः कलौ ।यतस्ततो विनङूक्ष्यन्ति कालेनाल्पेन मानवाः ।। ६-१-४३ ।।

यदा यदा हि पाषणडवृद्धिर्मैत्रेय लक्ष्यते ।तदा तदा कलेर्वृद्धिरनुमेया विचक्षणौः ।। ६-१-४४ ।।

यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् ।प्रारम्भाश्वावसीदन्ति यदा धर्म्मभृतां नृणाम् ।तदानुमेयं प्राधान्यं कलेर्मैत्रेय पणिडतैः ।। ६-१-४५ ।।

यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः ।इज्यते पुरुषैर्यज्ञैस्तदा ज्ञे यं कलेर्बलम् ।। ६-१-४६ ।।

न प्रीतिर्वेदवादेषु पाषणडेषु यदा रतिः ।कलेर्वृद्धिस्तदा प्राज्ञरैनुमेया विचक्षणैः ।। ६-१-४७ ।।

कलौ जगत्पतिं विष्णुं सर्व्वस्त्रष्टारमीश्वरम् ।नार्च्चयिष्यन्ति मैत्रेय पाषणडोपहता नराः ।। ६-१-४८ ।।

कि वेदैः किं द्रिजैर्देवैः किं शौचेनाम्बुजन्मना ।इत्येवं विप्र वक्ष्यन्ति पाषण्डोपहता नराः ।। ६-१-४९ ।।

स्वल्पाम्बुवृष्टिः पर्ज्जन्यः शस्यं स्वल्पफल तथाफलं तथाल्पसारञ्च विप्र प्रापते कलौ युगे ।। ६-१-५० ।।

शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ।। ६-१-५१ ।।

अणुप्रायाणि धान्यानि अजाप्रायं तथा पयः ।भविष्यति कलौ प्राप्ते उषोरञ्चानुलेपनम् ।। ६-१-५२ ।।

शश्रू-श्वशुरभूयिष्ठा गुरवश्व नृणां कलौ ।श्यालाद्या हारिभाय्योश्व सुह्टदो मुनिसतम् ।। ६-१-५३ ।।

कस्य माता पिता कस्य यदा कर्म्मानुगः पुमान् ।इति चोदाहरिष्यन्ति श्वशुरानुगेता नराः ।। ६-१-५४ ।।

वाङूमनः कायिकैर्दोषैरभिभूताः पुनः पुनः ।नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ।। ६-१-५५ ।।

निः सत्त्वानामशौचानां निः श्रीकाणां तथा नृणाम् ।यदूयदू दुः शाय यत् सर्व्वं कलिकाले भविष्यति ।। ६-१-५६ ।।

निःस्वाध्यायवषटूकरि स्वधास्वाहाविवर्ज्जिते ।तथा प्रविरलो विप्र क्वचिल्लोको निवत्स्यति ।। ६-१-५७ ।।

तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् ।करोति यं कृतयुगे क्रियते तपसा हि सः ।। ६-१-५८ ।।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३८अध्यायः २

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata