Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 5
  6. अध्यायः ३८

विष्णुपुराणम् · Amsha 5

अध्यायः ३८

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाचअर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरेसंस्कारं लंभयामास तथान्येषामनुक्रमात् १

2अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याःउपगुह्य हरेर्देहं विविशुस्ता हुताशनम् २

3रेवती चापि रामस्य देहमाश्लिष्य सत्तमाविवेश ज्वलितं वह्निं तत्संगाह्लादशीतलम् ३

4उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुंदुभिःदेवकी रोहिणी चैव विविशुर्जातवेदसम् ४

5ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधिनिश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ५

6द्वारवत्या विनिष्क्रांताः कृष्णपत्न्यः सहस्रशःवज्रं जनं च कौंतेयः पालयञ्छनकैर्ययौ ६

7सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झितेस्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ७

8यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम्तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ८

9प्लावयामास तां शून्यां द्वारकां च महोदधिःवासुदेवगृहं त्वेकं न प्लावयति सागरः ९

10नातिक्रांतुमलं ब्रह्मंस्तदद्यापि महोदधिःनित्यं सन्निहितस्तत्र भगवान्केशवो यतः १०

11तदतीव महापुण्यं सर्वपातकनाशनम्विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ११

12पार्थः पंचनदे देशो! बहुधान्यधनान्वितेचकार वासं सर्वस्य जनस्य मुनिसत्तमः १२

13ततो लोभस्समभवत्पार्थेनैकेन धन्विनादृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः १३

14ततस्ते पापकमाणो लोभोपहृतचेतसःआभीरा मंत्रयामासुस्समेत्यात्यंतदुर्मदाः १४

15अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् १५

16हत्वा गर्वसमारूढो भीष्मद्रो णजयद्र थान्कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् १६

17यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिस्स दुर्मतिःसर्वानेवावजानाति किं वो बाहुभिरुन्नतैः १७

18ततो यष्टिप्रहरणादस्यवो लोष्टधारिणःसहस्रशोभ्यधावंत तं जनं निहतेश्वरम् १८

19ततो निर्भर्त्स्य कौंतेयः प्राहाभीरान्हसन्निवनिवर्त्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः १९

20अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम्स्त्रीधनं चैव मैत्रेय विष्वक्सेन परिग्रहम् २०

21ततोर्जुनो धनुर्दिव्यं गांडीवमजरं युधिआरोपयितुमारेभे न शशाक च वीर्यवान् २१

22चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिलं पुनःन सस्मार ततोस्त्राणि चिंतयन्नपि पांडवः २२

23शरान्मुमोच चैतेषु पार्थो वैरिष्वमर्षितःत्वग्भेदं ते परं चक्रुरस्ता गांडीवधन्विना २३

24वह्निना येऽक्षया दत्ताश्शरास्तेपि क्षयं ययुःयुद्ध्यतस्सह गोपालैरर्जुनस्य भवक्षये २४

25अचिंतयच्च कौंतेयः कृष्णस्यैव हि तद्बलम्यन्मया शरसंघातैस्सकला भूभृतो हताः २५

26मिषतः पांडुपुत्रस्य ततस्ताः प्रमदोत्तमाःआभीरैरपकृष्यंत कामं चान्याः प्रदुद्रु वुः २६

27ततश्शरेषु क्षीणेषु धनुष्कोट्या धनंजयःजघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने २७

28प्रेक्षतस्तस्य पार्थस्य वृष्ण्यंधकवरस्त्रियःजग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम २८

29ततस्सुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन्अहो भगवतानेन मुष्टोस्मीति रुरोद वै २९

30तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनःसर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ३०

31अहोतिबलबद्दैवं विना तेन महात्मनायदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ३१

32तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनःपुण्येनैव विना तेन गतं सर्वमसारताम् ३२

33ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम्विना तेन यदा भीरैर्जितोहं रथिनां वरः ३३

34श्रीपराशर उवाचइत्थं वदन्ययौ जिष्णुरिंद्र प्रस्थं पुरोत्तमम्चकार तत्र राजानं वज्रं यादवनंदनम् ३४

35स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्तमुपेत्य महाभागं विनयेनाभ्यवादयत् ३५

36तं वंदमानं चरणाववलोक्य मुनिश्चिरम्उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ३६

37अवीरजोनुगमनं ब्रह्महत्या कृताथ वादृढाशाभंगदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ३७

38सांतानिकादयो वाते याचमाना निराकृताःअगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ३८

39भुङ्तेऽप्रदाय विप्रेभ्यो मृष्टमेकोथ वा भवान्किं वा कृपणवित्तानि हृतानि भवताऽर्जुन ३९

40कचिन्नु शूर्पवातस्य गोचरत्वं गतोऽर्जुनदुष्टचक्षुर्हतो वासि निश्श्रीकः कथमन्यथा ४०

41स्पृष्टो नखांभसा वाथ घटवचार्युक्षितोपि वाकेन त्वं वासि विच्छायो न्यूनैर्वा युधि निर्जितः ४१

42श्रीपराशर उवाचततः पार्थो विनिश्वस्य श्रूयतां भगवन्नितिप्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ४२

43अर्जुन उवाचयद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमःया श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ४३

44ईश्वरेणापि महता स्मितपूर्वाभिभाषिणाहीना वयं मुने तेन जातास्तृणमया इव ४४

45अस्त्राणां सायकानां च गांडीवस्य तथा ममसारता याभवन्मूर्त्तिस्स गतः पुरुषोत्तमः ४५

46यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिःन तत्याज स गोविंदस्त्यक्त्वास्मान्भगवान्गतः ४६

47भीष्मद्रो णांगराजाद्यास्तथा दुर्योधनादयःयत्प्रावेन निर्दग्धास्स कृष्णस्त्यक्तवान्भुवम् ४७

48निर्यौवना गतश्रीका नष्टच्छायेव मेदिनीविभाति तात नैकोहं विरहे तस्य चक्रिणः ४८

49यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायतम्विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ४९

50गांडीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतःगतस्तेन विनाऽऽभीरलगुडैस्स तिरस्कृतः ५०

51स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुनेयततो मम नीतानि दस्युभिर्लगुडायुधैः ५१

52आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम्हृतं यष्टिप्रहरणैः परिभूय बलं मम ५२

53निश्श्रीकता न मे चित्रं यज्जीवामि तदद्भुतम्नीचावमानपंकांकी निर्लज्जोस्मि पितामह ५३

54व्यास उवाचअलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसिअवेहि सर्वभूतेषु कालस्य गतिरीदृशी ५४

55कालो भवाय भूतानामभवाय च पांडवकालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ५५

56नद्यः समुद्रा गिरयस्सकला च वसुंधरादेवा मनुष्याः पशवस्तरवश्च सरीसृपाः ५६

57सृष्टाः कालेन कालेन पुनर्यास्यंति संक्षयम्कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ५७

58कालस्वरूपी भगवान्कृष्णः कमललोचनःयच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनंजय ५८

59भारावतारकार्यार्थमवतीर्णस्स मेदिनीम्भाराक्रांता धरा याता देवानां समितिं पुरा ५९

60तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनःतच्च निष्पादिनं कार्यमश्षोआ! भूभुजो हताः ६०

61वृष्ण्यंधककुलं सर्वं तथा पार्थोपसंहृतम्न किंचिदन्यत्कर्त्तव्यं तस्य भूमितले प्रभोः ६१

62अतो गतस्स भगवान्कृतकृत्यो यथेच्छयासृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम्अंतेंताय समर्थोयं सांप्रतं वै यथा गतः ६२

63तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवेभवंति भावाः कालेषु पुरुषाणां यतः स्तुतिः ६३

64त्वयैकेन हता भीष्मद्रो णकर्णादयो रणेतेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ६४

65विष्णोस्तस्य प्रभावेन यथा तेषां पराभवःकृतस्तथैव भवतो दस्युभ्यस्स पराभवः ६५

66स देवेशश्शरीराणि समाविश्य जगत्स्थितिम्करोति सर्वभूतानां नाशमंते जगत्पतिः ६६

67भगोदये ते कौंतेय सहायोऽभूज्जनार्दनःतथांते तद्विपक्षास्ते केशवेन विनाशिताः ६७

68कश्श्रद्दद्ध्यात्सगांगेयान्हन्यास्त्वं कौरवानितिआभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ६८

69पार्थैतत्सर्वभूतस्य हरेर्लीलाविचेष्टितम्त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ६९

70गृहीता दस्युभिर्याश्च भवाञ्छोचति तास्स्त्रियःएतस्याह यथावृत्तं कथयामि तवार्जृन ७०

71अष्टावकः पुरा विप्रो जलवासरतोऽभवत्बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ७१

72जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवःबभूव तत्र गच्छंत्यो ददृशुस्तं सुरस्त्रियः ७२

73रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशःतुष्टुवुस्तं महात्मानं प्रशशंसुश्च पांडव ७३

74आकंठमग्नं सलिले जटाभारवहं मुनिम्विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ७४

75यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथासर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ७५

76अष्टावक्र उवाचप्रसन्नोऽहं महाभागा भवतीनां यदिष्यतेमत्तस्तद्व्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ७६

77रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन्प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ७७

78इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदितदिच्छामः पतिं प्राप्तुं विप्रेंद्र पुरुषोत्तमम् ७८

79व्यास उवाचएवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिःतमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ७९

80तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत्ताश्शशाप मुनिः कोपमवाप्य कुरुनंदन ८०

81यस्माद्विकृतरूपं मां मत्वा हीसावमाननाभवतीभिः कृता तस्मादेतं शापं ददामि वः ८१

82मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम्मच्छापोपहतास्सर्वा दस्युहस्तं गमिष्यथ ८२

83व्यास उवाचइत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितःपुनस्सुरेंद्र लोकं वै प्राह भूयो गमिष्यथ ८३

84एवं तस्य मुनेश्शापादष्टावक्रस्य चक्रिणम्भर्त्तारं प्राप्य ता याता दस्युहस्तं सुरांगनाः ८४

85तत्त्वया नात्र कर्त्तव्यश्शोकोऽल्पोपि हि पांडवतेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ८५

86भवतां चोपसंहार आसन्नस्तेन पांडवबलं लेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ८६

87जातस्य नियतो मृत्युः पतनं च तथोन्नतेःविप्रयोगावमानस्तु संयोगः संचये क्षयः ८७

88विज्ञाय न बुधाश्शोकं न हर्षमुपयांति येतेषामेवेतरे चेष्टां शिक्षंतस्संति तादृशाः ८८

89तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिस्सहपरित्यज्याऽखिलं तंत्रं गंतव्यं तपसे वनम् ८९

90तद्गच्छ धर्मराजाय निवेद्यैतद्वचो ममपरश्वो भ्रातृडभिस्सार्द्धं यथा यासि तथा कुरु ९०

91इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनःदृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ९१

92व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम्राज्ये परीक्षितं कृत्वा ययुः पांडुसुता वनम् ९२

93इत्येतत्तव मैत्रेय विस्तरेण मयोदितम्जातस्य यद्यदोर्वंशो! वासुदेवस्य चेष्टितम् ९३

94यश्चैतच्चरितं तस्य कृष्णस्य शृणुयात्सदासर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ९४

इति श्रीविष्णुमहापुराणे पंचमांशो!ऽष्टात्रिंशोऽध्यायः ३८

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३७अध्यायः १

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata