विष्णुपुराणम् · Amsha 5
अध्यायः ७
Ask AI1श्रीपराशर उवाचएकदा तु विना रामं कृष्णो वृंदावनं ययौविचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः १
2स जगामाथ कालिंदीं लोलकल्लोलशालिनीम्तीरसंलग्नफेनौघैर्हसंतीमिव सर्वतः २
3तस्याश्चातिमहाभीमं विषाग्निश्रितवारिणम्ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ३
4विषाग्निना प्रसरता दग्धतीरमहीरुहम्वाताहतांबुविक्षेपस्पर्शदग्धविहंगमम् ४
5तमतीव महारौद्रं मृत्युवक्त्रमिवापरम्विलोक्य चिंतयामास भगवान्मधुसूदनः ५
6अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधःयो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ६
7तेनेयं दूषिता सर्वा यमुना सागरंगमान नरैर्गोधनैश्चापि तृषार्त्तैरुपभुज्यते ७
8तदस्य नागराजस्य कर्त्तव्यो निग्रहो मयानिस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ८
9एतदर्थं तु लोकेस्मिन्नवतारः कृतो मयायदेषामुत्पथस्थानां कार्या शांतिर्दुरात्मनाम् ९
10तदेतं नातिदूरस्थं कदंबमुरुशाखिनम्अधिरुह्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः १०
11श्रीपराशर उवाचइत्थं विचिंत्य बद्धा च गाढं परिकरं ततःनिपपात ह्रदे तत्र नागराजस्य वेगतः ११
12तेनातिपतता तत्र क्षोभितस्स महाह्रदःअत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् १२
13ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताःजज्वलुः पादपास्सद्यो ज्वालाव्याप्तदिगंतराः १३
14आस्फोटयामास तदा कृष्णो नागह्रदे भुजम्तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् १४
15आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैःवृतो महाविषैश्चान्यैरुरगैरनिलाशनैः १५
16नागपत्न्यश्च शतशो हारिहारोपशोभिताःप्रकंपिततनुक्षेपचलत्कुंतलकांतयः १६
17ततः प्रवेष्टितस्सर्पैस्स कृष्णे भोगबंधनैःददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः १७
18तं तत्र पतितं दृष्ट्वा सर्पभोगैर्निपीडितम्गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः १८
19गोपा ऊचुःएष मोहं गतः कृष्णो मग्नौ वै कालियह्रदेभक्ष्यते नागराजेन तमागच्छत पश्यत १९
20तच्छ्रुत्वा तत्र ते गोपा वज्रपा तोपमं वचःगोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् २०
21हाहा क्वासाविति जनो गोपीनामतिविह्वलःयशोदया समं भ्रान्तो द्रु तप्रस्खलितं ययौ २१
22नंदगोपश्च गोपाश्च रामश्चाद्भुतविक्रमःत्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः २२
23ददृशुश्चापि ते तत्र सर्पराजवशंगतम्निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् २३
24नंदगोपोपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम्यशोदा च महाभागा बभूव मुनिसत्तम २४
25गोप्यस्त्वन्या रुदंत्यश्च ददृशुः शोककातराःप्रोचुश्च केशवं प्रीत्या भयकातर्यगद्गदम् २५
26गोप्य ऊचुःसर्वा यशोदया सार्द्धं विशामोत्र महाह्रदम्सर्पराजस्य नो गंतुमस्माभिर्युज्यते व्रजम् २६
27दिवसः को विना सूर्यं विना चंद्रे ण का निशाविना वृषेण का गावो विना कृष्णेन को व्रजः २७
28विनाकृता न यास्यामः कृष्णेनानेन गोकुलम्अरम्यं नातिसेव्यं च वारिहीनं यथा सरः २८
29यत्र नेंदीवरश्यामकायकांतिरयं हरिःतेनापि पातुर्वासेन रतिरस्तीति विस्मयः २९
30उत्फुल्लपंकजदलस्पष्टकांतिविलोचनम्अपश्यंतो हरिं दीनाः कथं गोष्ठे भविष्यथ ३०
31अत्यंतमधुरालापहृताश्षोमनोरथम्न विना पुंडरीकाक्षं यास्यामो नंदगोकुलम् ३१
32भोगेनावेष्टितस्यापि सर्पराजस्य पश्यतस्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ३२
33श्रीपराशर उवाचइति गोपीवचः श्रुत्वा रौहिणेयो महाबलःगोपांश्च त्रासविधुरान्विलोक्य स्तिमितेक्षणान् ३३
34नंदं च दीनमत्यर्थं न्यस्तदृष्टिं सुताननेमूर्च्छाकुलां यशोदां च कृष्णमाहात्मसंज्ञया ३४
35किमिदं देवदेवेश भावोऽयं मानुषस्त्वयाव्यज्यतेत्यंतमात्मानं किमनंतं न वोत्सि यत् ३५
36त्वमेव जगतो नाभिरराणामिव संश्रयःकर्त्तापहर्त्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ३६
37सेंद्रै रुद्रा ग्निवसुभिरादित्यैर्मरुदश्विभिःचिंत्यसे त्वमचिंत्यात्मन् समस्तैश्चैव योगिभिः ३७
38जगत्यर्थं जगन्नाथ भारावतरणेच्छयाअवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ३८
39मनुष्यलीलां भगवन् भजता भवता सुराःविडम्बयन्तस्त्वल्लीलां सर्व एव सहासते ३९
40अवतार्य भवान्पूर्वं गोकुले तु सुरांगनाःक्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ४०
41अत्रावतीर्णयोः कृष्ण गोपा एव हि बांधवाःगोप्यश्च सीदतः कस्मादेतान्बंधूनुपेक्षसे ४१
42दर्शितो मानुषो भावो दर्शितं बालचापलम्तदयं दम्यतां कृष्ण दुष्टात्मा दशनायुधः ४२
43श्रीपराशर उवाचइति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटःआस्फोट्य मोचयामास स्वदेहं भोगिबंधनात् ४३
44आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरःआरुह्याभुग्नशिरसः प्रणनर्त्तोरुविक्रमः ४४
45प्राणाः फणेऽभवंश्चास्य कृष्णस्यांघ्रिनिकुट्टनैःयत्रोन्नतिं च कुरुते ननामास्य ततश्शिरः ४५
46मूर्च्छामुपाययौ भ्रांत्या नागः कृष्णस्य रेचकैःदंडपातनिपातेन ववाम रुधिरं बहु ४६
47तं विभुग्नशिरोग्रीवमास्येभ्यस्स्रुतशोणितम्विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ४७
48नागपत्न्य ऊचुःज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमःपरं ज्योतिरचिंत्यं यत्तदंशः परमेश्वरः ४८
49न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ४९
50यस्याऽखिलमहीर्व्योमजलाग्निपवनात्मकम्ब्रह्मांडमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ५०
51यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनःपरमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ५१
52न यस्य जन्मने धाता यस्य चांताय नांतकःस्थितिकर्त्ता न चान्योस्ति यस्य तस्मै नमस्सदा ५२
53कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव तेकारणं कालियस्यास्य दमने श्रूयतां वचः ५३
54स्त्रियोनुकंप्यास्साधूनां मूढा दीनाश्च जंतवःयतस्ततोस्य दीनस्य क्षम्यतां क्षमतांवर ५४
55समस्त जगदाधारो भवानल्पबलः फणीत्वत्पादपीडितो जह्यान्मुहूर्त्तार्द्धेन जीवितम् ५५
56पन्नगोल्पवीर्योऽयं क्व भवान्भुवनाश्रयःप्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ५६
57ततः कुरु जगत्स्वामिन्प्रसादमवसीदतःप्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ५७
58भुवनेश जगन्नाथ महापुरुषपूर्वजप्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ५८
59वेदांतवेद्य देवेश दुष्टदैत्यनिबर्हणप्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ५९
60श्रीपराशर उवाचइत्युक्ते ताभिराश्वस्य क्लांतदेहोपि पन्नगःप्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ६०
61कालिय उवाचतवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम्निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्न्वहम् ६१
62त्वं परस्त्वं पस्याद्यः परं त्वत्तः परात्मकपरस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्न्वहम् ६२
63यस्माद्ब्रह्मा च रुद्रश्च चंद्रेद्रं! मरुदश्विनःवसवश्च सहादित्यैस्तस्य स्तोष्यामि किन्न्वहम् ६३
64एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत्कल्पनावयवस्यांशस्तस्य स्तोष्यामि किन्न्वहम् ६४
65सदसद्रू पिणो यस्य ब्रह्माद्यास्त्रिश्श्वोराःपरमार्थं न जानंति तस्य स्तोष्यामि किन्न्वहम् ६५
66ब्रह्माद्यैरर्चिते यस्तु गंधपुष्पानुलेपनैःनंदनादिसमुद्भूतैस्सोर्च्यते वा कथं मया ६६
67यस्यावताररूपाणि देवराजस्सदार्च्चतिन वेत्ति परमं रूपं सोऽर्च्यते वा कथं मया ६७
68विषयेभ्यस्समावृत्त्य सर्वाक्षाणि च योगिनःयमर्चयंति ध्यानेन सोऽर्च्यते वा कथं मया ६८
69हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनःभावपुष्पादिना नाथः सोर्च्यते वा कथं मया ६९
70सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न चसामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ७०
71सर्पजातिरियं क्रुरा यस्यां जातोस्मि केशवतत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ७१
72सृज्यते भवता सर्वं तथा संह्रीयते जगत्जातिरूपस्वभावाश्च सृज्यंते सृजता त्वया ७२
73यथाहं भवता सृष्टो जात्या रूपेण चेश्वरस्वभावेन च साधुत्वं तथेदं चेष्टितं मया ७३
74यद्यन्यथा प्रवर्त्तेयं देवदेव ततो मयिन्याय्यो दण्डनिपातो वै तवैव वचनं यथा ७४
75तथाप्यज्ञे जगत्स्वामिन्दंडं पातितवान्मयिस श्लाघ्योयं दंडस्त्वत्तो मे नान्यतो वरः ७५
76हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युतजीवितं दीयतामेकमाज्ञापय करोमि किम् ७६
77श्रीभगवानुवाचनात्र स्थेयं त्वया सर्प कदाचिद्यमुनाजलेसपुत्रपरिवारस्त्वं समुद्र सलिलं व्रज ७७
78मत्पदानि च ते सर्प दृष्ट्वा मूर्द्धनि सागरेगरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ७८
79श्रीपराशर उवाचइत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिःप्रणम्य सोपि कुष्णाय जगाम पयसां निधिम् ७९
80पश्यतां सर्वभूतानां सभृत्यसुतबांधवःसमस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ८०
81गते सर्पे परिष्वज्य मृतं पुनरिवागतम्गोपा मूर्द्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ८१
82कृष्णमक्लिष्टकर्माणमन्ये विस्मितचेतसःतुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ८२
83गीयमानः स गोपीभिश्चारितैस्साधुचेष्टितैःसंस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ८३
इति श्रीविष्णुमहापुराणे पंचमांशो! सप्तमोऽध्यायः ७
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.