Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 5
  6. अध्यायः ६

विष्णुपुराणम् · Amsha 5

अध्यायः ६

संस्कृतEnglish
Ask AI

कदाचिच्छकटाधस्ताच्छयानो मधुसूदनः ।चिक्षेप चरणावूद्ध्व स्तन्यार्थी प्ररुरोद च ।। ४-६-१ ।।

तस्य पादप्रहारेणा शकटं परिवर्त्तितम् ।विध्वस्तकुम्भभाणडं बै विपरीतं पपात च ।। ४-६-२ ।।

ततो हाहाकृतं सर्व्वो गोपगोपीजनो द्रिज !आजगामाथ ददृशे बालमुत्तानशायिनम् ।। ४-६-३ ।।

गोपाः केनेति केनेदं शकटं पखिर्त्तितम् ।तत्रैवं बालकाश्वोचुर्बालेनानेन पातितम् ।। ४-६-४ ।।

रुदता दृष्टमस्माभिः पादविक्षेपताड़ितम् ।शकटं परिवृत्तं वै नैतदन्यस्य चोष्टितम् ।। ४-६-४ ।।

ततः पुनरतीवासन् गोपा विस्मितचेतसः ।नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ।। ४-६-६ ।।

यशोदा शकटारूढ़भग्रभाण्डकपालिकाः ।शकटं चार्च्चयामास दधि-पुष्प-फलाक्षतैः ।। ४-६-७ ।।

गर्गश्व गोकुले तत्र वसुदेवप्रणोदितः ।प्रच्छन्न एव गोपानां संस्काराकरोत् तयोः ।। ४-६-८ ।।

ज्येष्ठञ्च राममित्याह कृष्णञ्चवै तथापरम् ।गर्गो मतिमतां श्रेष्ठो नाम कुर्व्वन् महामतिः ।। ४-६-९ ।।

स्वल्पेनैव हि कालेन रिङ्गिणौ तौ तदा ब्रजे ।घृष्टजानुकरौ तौ हि बभूवतुरुभावपि ।। ४-६-१० ।।

करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।न निवारायितु शेके यशोदा न च रोहिणी ।। ४-६-११ ।।

गोवांटमध्ये क्रीड़न्तौ वत्सवाटगतौ पुनः ।तदहर्जातगोवतूसपुच्छाकर्षणतत्परौ ।। ४-६-१२ ।।

यदा यशोदा तौ बालावेकस्थानचरावुभौ ।शशाकि नो वाररितु क्रीड़न्तावतिचञ्चलौ ।। ४-६-१३ ।।

यशोदा यष्टिमादाय कोपेनानुगता च तम् ।कृष्णां कमलपत्राक्षं तर्ज्जयन्ती रुषा तदा ।। ४-६-१४ ।।

दाम्रा बद्धा तदा मध्ये निबध्याथ उदूखले ।कृष्णमक्लिष्टकर्म्माणमाह चेदममर्षिता ।। ४-६-१४ ।।

यदि शक्रोषि गच्छ त्वमतिचञ्चलचेष्टित !इत्युक्त्वा च निजं कर्म्म सा चकार कुटुम्बिनी ।। ४-६-१६ ।।

व्यग्रायामथ तस्यां स कर्षमाण उदूखलम् ।यमलार्ज्जुनमध्येन जगाम कमलेक्षणः ।। ४-६-१७ ।।

कर्षता वृक्षयोर्मध्ये तिर्य्यगूगतमुदूखलम् ।भग्रावुत्तुङ्गशाखाग्रो तेन तौ यमलार्ज्जुनौ ।। ४-६-१८ ।।

ततः कटकटाशब्दं समाकर्ण्य च कातरः ।आजगाम ब्रजजनो ददृशे च महाद्र मौ ।। ४-६-१९ ।।

भग्रस्कन्धौ निपतितौ भग्रशाखौ महीतले ।नवोदूगताल्पदन्तांशु-सितहासञ्च बालकम् ।। ४-६-२० ।।

तयोर्मध्यगतं बद्धं दाम्रा गाढ़ तथोदरे ।ततश्व दामोदरतां स ययौ दामबन्धनात् ।। ४-६-२१ ।।

गोपबृद्धास्ततः सर्व्वे नन्दगोपपुरोगमाः ।मन्त्रयामासुरुद्रिग्रा महोत्पातातिभीरवः ।। ४-६-२२ ।।

स्थानेनेह न नः कार्य्यं गच्छामोऽन्यन्महावनम् ।उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ।। ४-६-२३ ।।

पूतनाया विनाशश्व शकटस्य विपर्य्ययः ।विना वातादि-दोषेण द्रु मयोः पतनं तथा ।। ४-६-२४ ।।

वृन्दावनमितः स्थानात् तस्माद् गच्छाम मा चिरम् ।यावद्भौममहोत्पात-दोषो नाभिभवेदू व्रजम् ।। ४-६-२४ ।।

इति कृत्वा मतिं सर्व्वे गमने ते व्रजौकसः ।ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्बयताम् ।। ४-६-२६ ।।

ततः क्षणेनः प्रययु शकटैर्गोधनैस्तथा ।यूथशो वतूसबालांश्व कालयन्तो व्रजौकसः ।। ४-६-२७ ।।

द्रव्यावयवनिद्धूतं क्षणामात्रेण तत् तथा ।काक-काकी-समाकीर्णां व्रजस्थानमभूदू द्रिज ।। ४-६-२८ ।।

वृन्दावनं भगवता कृष्णोनाक्लिष्टकर्म्मणा ।शुभेन मनसा ध्यातं गबां वृद्धिमभीप्सता ।। ४-६-२९ ।।

ततस्तत्रातिरूक्षेऽपि घर्म्मकाले द्रिजोत्तम!प्रावृटूकाल इवोद्भूतं नवं शस्यं समन्ततः ।। ४-६-३० ।।

स समावासितः सर्व्वो व्रजो वृन्दावने ततः ।खकटोवाचटपर्य्यन्तश्वन्द्रार्द्धाकारसंस्थितिः ।। ४-६-३१ ।।

वत्सपालौ च संवृत्तौ राम-दामोदरौ ततःएकस्थानस्थितौ गोष्ठे चेरतुर्बाललीलया ।। ४-६-३२ ।।

बर्हिपत्रकृतापीड़ौ वन्यपुष्पावतंसकौ ।गोपवेणुकृतातोद्य-पत्रवाद्यकृतस्वनौ ।। ४-६-३३ ।।

काकपक्षधरौ बालौ कुमाराविव पावकी ।हसन्तौ च रमन्तौ च चेरतुस्तै महाबलौ ।। ४-६-३४ ।।

क्वचिद्धसन्तावन्योन्यं क्रीड़मानौ तथापरैः ।गोपपुत्रैः समं वत्सांश्वारयन्तौ विचेरतुः ।। ४-६-३४ ।।

कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे ।सर्व्वस्य जगतः पालौ वत्सपालौ बभूवतुः ।। ४-६-३६ ।।

प्रावृटूकालस्ततोऽतीव मेघौघस्थगिताम्बरः ।बभूव वारिधाराभिरैक्यं कुर्व्वन् दिशामिव ।। ४-६-३७ ।।

प्ररूढ़नवशस्याञया शक्रगोपाचिता मही ।तदा मारकतीवासीत् पद्मरागविभूषिता ।। ४-६-३८ ।।

जग्मुरुन्मार्गवाहानि निम्रगाम्भांसि सर्व्वतः ।मनांसि दुव्विनीतानां प्राप्य लक्ष्मीं नवामिव ।। ४-६-३९ ।।

न रेजेऽन्तरितश्वन्द्रो निर्म्मलो मलिनैर्घनैः ।सद्राक्यवादो मूर्खाणां प्रगलूभाभिरिवोक्तिभिः ।। ४-६-४० ।।

निगु णोनापि चापेन शक्रस्य गगने पदम् ।अवाप्यताविवेकस्य नृपस्येव परिग्रहे ।। ४-६-४१ ।।

मेघपृष्ठे बलाकानां रराज विमला ततिः ।दुर्वृत्ते वृत्त्चेष्टेव कुलीनस्यातिशोभना ।। ४-६-४२ ।।

न बबन्धाम्बरे स्थैर्य्य विद्यु दत्यन्तचञ्चला ।मैत्रीव प्रवरे पुंसि दुर्ज्जनेन प्रयोजिता ।। ४-६-४३ ।।

मार्गा बभूवुरस्पष्टा नवशस्यचयावृताः ।अर्थान्तरमनुप्राप्ताः प्रजड़ानामिवोक्तयः ।। ४-६-४४ ।।

उन्मत्तशिखिसारङ्ग तस्मिन् काले महावने ।कृष्ण-रामौ मुदा युक्तौ गोपालैश्चैरतुः सह ।। ४-६-४४ ।।

क्वचिदू गोपैः समं रम्यं गेयनृत्यरतावुभौ ।चेरतुः क्कचिदत्यर्थं शीतवृक्षतलाश्रयौ ।। ४-६-४६ ।।

क्वचित् कदम्बस्रक्-चित्रौ मयूरस्त्रग्धरौ क्वचित् ।विचित्रौ क्वचिदास्येतां विविधैर्गिरिधातुभिः ।। ४-६-४७ ।।

पर्णशय्यासु संसुप्तौ क्वचिन्नद्रान्तरैषिणौ ।क्वचिद् गर्ज्जति जीमूते हाहाकारखादृतौ ।। ४-६-४८ ।।

गायतामन्यगोपानां प्रशंसापरमौ क्वचित् ।मयूरकेकानुगतौ गोपवेषुप्रवादकौ ।। ४-६-४९ ।।

इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ ।क्रीड़ासक्तौ वने तस्मिन् चेरतुः प्रीतमानसौ ।। ४-६-४० ।।

विकाले तु समं गोभिर्गोपवृन्दसमन्बितौ ।आजग्मतुः कृष्ण-बलौ गोपवेशधरावुभौ ।। ४-६-४१ ।।

विकाले च यथाजोष व्रजमत्य महाबलौ ।गोपैः समानैः सहितौ चिक्रीड़ातेऽमराविव ।। ४-६-४२ ।।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ५अध्यायः ७

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata