Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 5
  6. अध्यायः ३३

विष्णुपुराणम् · Amsha 5

अध्यायः ३३

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाचबाणोपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम्देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना १

2कच्चिन्ममैषां बाहूनां साफल्यजनको रणःभविष्यति विना युद्धं भाराय मम किं भुजैः २

3श्रीशंकर उवाचमयूरध्वजभंगस्ते यदा बाण भविष्यतिपिशिताशिजनानंदं प्राप्स्यसे त्वं तदा रणम् ३

4श्रीपराशर उवाचततः प्रणम्य वरदं शंभुमभ्यागतो गृहम्सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ४

5एतस्मिन्नेव काले तु योगविद्याबलेन तम्अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ५

6कन्यांतःपुरमभ्येत्य रममाणं सहोषयाविज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ६

7व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मनाजघान परिघं घोरमादाय परवीरहा ७

8हतेषु तेषु बाणोपि रथस्थस्तद्वधोद्यतःयुध्यमानो यथाशक्ति यदुवीरेण निर्जितः ८

9मायया युयुधे तेन स तदा मंत्रिचोदितःततस्तं पन्नगास्त्रेण बबंध यदुनंदनम् ९

10द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम्यदूनामाचचक्षे तं बद्धं बाणेन नारदः १०

11तं शोणितपुरं नीतं श्रुत्वा विद्याविदग्धयायोषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ११

12ततो गरुडमारुह्य स्मृतमात्रागतं हरिःबलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् १२

13पुरप्रवेशो! प्रमथैर्युद्धमासीन्महात्मनःययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः १३

14ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान्बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना १४

15तद्भस्मस्पर्शसंभूततापः कृष्णांगसंगमात्अवाप बलदेवोपि श्रममामीलितेक्षणः १५

16ततस्स युद्ध्यमानस्तु सह देवेन शार्ङ्गिणावैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः १६

17नारायणभुजाघातपरिपीडनविह्वलम्तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः १७

18ततश्च क्षांतमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम्आत्मन्येव लयं निन्ये भगवान्मधुसूदनः १८

19ज्वर उवाचमम त्वाय समं युद्धं ये स्मरीष्यंति मानवाःविज्वरास्ते भविष्यंती त्युक्त्वा चैनं ययौ ज्वरः १९

20ततोग्नीन्भगवान्पंच जित्वा नीत्वा तथा क्षयम्दानवानां बलं कृष्णश्चूर्णयामास लीलया २०

21ततस्समस्तसैन्येन दैतेयानां बलेस्सुतःयुयुधे शंकरश्चैव कार्त्तिकेयश्च शौरिणा २१

22हरिशंकरयोर्युद्धमतीवासीत्सुदारुणम्चुक्षुभुस्सकला लोकाश्शस्त्रास्त्रांशुप्रतापिताः २२

23प्रलयोयमशेषस्य जगतो नूनमागतःमेनिरे त्रिदशास्तत्र वर्त्तमाने महारणे २३

24जृंभ कास्त्रेण गोविंदो जृंभयामास शंकरम्ततः प्रणेमुर्दैतेयाः प्रमथाश्च समंततः २४

25जृंभाभिभूतस्यु हरो रथोपस्थ उपाविशत्न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा २५

26गरुजक्षतवाहश्च प्रद्युम्नास्त्रेम पीडितःकृष्णहुंकारनिर्धूतशक्तिश्चापययौ गुहः २६

27जृंभिते शंकरे नष्टे दैत्यसैन्ये गुहे जितेनीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना २७

28नंदिना संगृहीताश्वमधिरूढो महारथम्बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैस्सह २८

29बलभद्रो महावीर्यो बाणसैन्यमनेकधाविव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत २९

30आकृष्य लांगलाग्रेण मुसलेनाशु ताडितम्बलं बलेन ददृशो! बाणो बाणैश्च चक्रिणा ३०

31ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ३१

32समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनःकृष्णश्चिच्छेद बाणैस्तान्बाणेन प्रहिताञ्छितान्विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ३२

33मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषयापरस्परक्षतिकरौ लाघवादनिशं द्विज ३३

34भिद्यमानेष्वश्षोए!षु शरेष्वस्त्रे च सीदतिप्राचुर्येण ततो बाणं हंतुं चक्रे हरिर्मनः ३४

35ततोर्कशतसंघाततेजसा सदृशद्युतिजग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ३५

36मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषःनग्ना दैतेयविद्याऽभूत्कोटरी पुरतो हरेः ३६

37तामग्रतो हरिर्दृष्ट्वा मीलिताक्षस्सुदर्शनम्मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ३७

38क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम्छेदं चक्रेऽसुरापास्तशस्त्रौघक्षपणादृतम् ३८

39छिन्ने बाहुवने तत्तु करस्थं मधुसूतनःमुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ३९

40समुपेत्याह गोविंदं सामपूर्वमुमापतिःविलोक्य बाणं दादडच्छेदासृक्स्राववर्षिणम् ४०

41शंकर उवाचकृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम्परेशं परमात्मानमनादिनिधनं हरिम् ४१

42देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिकालीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ४२

43तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभोतत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ४३

44अस्मत्संश्रयदृप्तोयं नापराधी तवाव्ययमया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ४४

45श्रीपराशर उवाचइत्युक्तः प्राह गोविंदश्शूलपाणिमुमापतिम्प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ४५

46श्रीभगवानुवाचयुष्मद्दत्तवरो बाणो जीवतामेष शंकरत्वद्वाक्यगौरवादेतन्मया चक्रं निवर्त्तितम् ४६

47त्वया यदभयं दत्तं तद्दत्तमखिलं मयामत्तोऽविभिन्नमात्मानं द्र ष्टुमर्हसि शंकर ४७

48योहं स त्वं जगच्चेदं सदेवासुरमानुषम्मत्तो नान्यदश्षॐ यत्तत्त्वं ज्ञातुमिहार्हसि ४८

49अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनःवदंति भेदं पश्यंति चावयोरंतरं हर ४९

50प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ५०

51श्रीपराशर उवाचइत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठतितद्बंधफणिनो नेशुर्गरुडानिलपोथिताः ५१

52ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मतिआजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ५२

53पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनःदेवीभिस्सततं विप्र भूभारतरणेच्छया ५३

इति श्रीविष्णुमहापुराणे पंचमांशो! त्रयस्त्रिंशोऽध्यायः ३३

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३२अध्यायः ३४

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata