विष्णुपुराणम् · Amsha 5
अध्यायः ३२
Ask AIपराशार उवाच ।प्रद्यु म्राद्या हरेः पुत्रा रुक्मिण्याः कथितास्तव ।भानुं भैमरिकञ्चैव सत्यभामा व्यजायत ।। ५-३२-१ ।।
दीप्तिमान् ताम्रपक्षाद्या रोहिणयां तनया हरेः ।बभूवुर्जाम्बवत्याञ्च शाम्बाद्या बलशालिनः ।। ५-३२-२ ।।
तनया भद्रविन्दाद्या नाग्रजित्यां महाबलाः ।संग्रामजित्प्रधानास्तु शैव्यायान्त्वभवन् सुताः ।। ५-३२-३ ।।
वृकाद्याश्व सुता माद्रयां गात्रवत्प्रमुखान् सुतान् ।अवाप लक्ष्मणा पुत्राः कालिन्द्याञ्च श्रुतादयः ।। ५-३२-४ ।।
अन्यासाञ्चैव भार्य्याणां समुतूपन्नानि चक्रिणः ।अष्टायुतानि पुत्राणां सहस्त्रणां शतं तथा ।। ५-३२-५ ।।
प्रद्यु म्रः प्रथमस्तेषा सर्व्वेषां रुक्मिणीसुतः ।प्रद्यु म्रादनिरुद्धोऽभूदू वजूस्तस्मादजायत ।। ५-३२-६ ।।
अनिरुद्धो रणो रुद्धो बलेः पौत्रीं महाबलः ।वाणास्य तनयामूषामुपयेमे द्रिजोत्तम ।। ५-३२-७ ।।
यत्र युद्धमभूदू घोरं हरि-शङ्करयोर्महत् ।छिन्न सहस्त्र बाहूनां यत्र वाणस्य चक्रिणा ।। ५-३२-८ ।।
मैत्रेय उवाच ।कथं युद्धमभूदू ब्रह्मन्नुषार्थे हर-कृष्णयोः ।कथं क्षयञ्च वाणस्य बाहूनां कृतवान् हरिः ।। ५-३२-९ ।।
एतत् सर्व्व महाभाग! समाख्यातु त्वमर्हसि ।महत् कौतूहलं जातं कथां श्रोतुमिमां हरेः ।। ५-३२-१० ।।
पराशर उवाच ।ऊषा वाणसुता विप्र! पार्व्वतीं सह शम्भुना ।क्रीड़न्तीमुपलक्ष्योच्चैः स्पृहाञ्चक्र तदाश्रयाम् ।। ५-३२-११ ।।
ततः सकलाचित्तज्ञा गौरी तामाह भामिनीम् ।अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ।। ५-३२-१२ ।।
इत्युक्ते सा तदा चक्र कदेति मतिमात्मनः ।को वा भर्त्ता ममेत्येतां पुनरप्याह पार्व्वती ।। ५-३२-१३ ।।
वैशाखशुक्लद्रादश्यां स्वप्ने योऽभिभवं तव ।करिष्यति स ते भर्त्ता राजपुत्रि!भविष्यति ।। ५-३२-१४ ।।
तस्यां तिथौ पुमान् खप्ने यथा देव्या उदीरितम् ।तथैवाभिभवं चक्र रागञ्चक्र तथैव सा ।। ५-३२-१५ ।।
ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ।क्व गतोऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ।। ५-३२-१६ ।।
वाणस्य मन्त्री कुम्भाणडश्वित्रलेशा तु तत्सुता ।तस्याः सख्यभवत् सा च प्राह कोऽय त्वयोच्यते ।। ५-३२-१७ ।।
यदा लज्जाकुला नास्यै कथयामास सा सती ।तदा विश्वासमानीय सर्व्वमेवाभ्यवादयत् ।। ५-३२-१८ ।।
19विदितार्थान्तु तामाह पुनरूषा यथोदितम् ।देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् । ५-३२-१९ ।।
ततः पटे सुरान् दैत्यान् गन्धर्व्वांश्व प्रधानतः ।मनुष्यांश्वाबिलिख्यास्यै चित्रलेखा व्यदर्शयत् ।। ५-३२-२० ।।
अपास्य सा तु गन्धर्व्वांस्तथोरगसुरासुरान् ।मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ।। ५-३२-२१ ।।
कृष्ण-रामौ विलोक्यासौ सुभ्रु र्लज्जाजड़ेव सा ।प्रद्यु म्रदर्शाने व्रीड़ा-दृष्टिं निन्येऽन्यतो द्रिज ।। ५-३२-२२ ।।
दृष्टमात्रे ततः कान्ते प्रद्यु म्रतनये द्रिज ।दृष्ट्यात्यर्थविकाशिन्या लज्जा क्कापि निराकृता ।। ५-३२-२३ ।।
सोऽयं सोऽयमितीत्युक्त तया सा योगगामिनी ।ययौ द्रारवतीमूषां समाश्वास्य ततः सखीम् ।। ५-३२-२४ ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.