विष्णुपुराणम् · Amsha 4
अध्यायः ४
Ask AI॥ अथ चतुर्थोऽध्यायः ॥(सगरस्य अश्वमेधयज्ञः, सौदासचरित्रम्, रामचरित्रम्)श्रीपराशर उवाचकाश्यपदुहिता सुमतिः विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्य आस्ताम् ॥१॥
ताभ्यां चापत्यार्थम् और्वः परमेण समाधिनाराधितो वरम् अदात् ॥२॥
“एका वंशकरमेकं पुत्रम्, अपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यताम्” इत्युक्ते केशिनी एकं वरयामास ॥३॥
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥४॥
“तथा” इत्युक्ते अल्पैरहोभिः केशिनी पुत्रम् एकम् असमञ्जसनामानं वंशकरम् असूत ॥५॥
काश्यपतनयायाः तु सुमत्याः षष्टिः पुत्रसहस्रणि अभवन् ॥६॥
तस्मात् असमञ्जसात् अंशुमान् नाम कुमारो जज्ञे ॥७॥
स त्वसमञ्जसो बालो बाल्यादेव असद्वृत्तोऽभूत् ॥८॥
पिता चास्य अचिन्तयत् “अयम् अतीतबाल्यः सुबुद्धिमान् भविष्यति” इति ॥९॥
अथ तत्रापि च वयसि अतीते असच्चरितमेनं पिता तत्याज ॥१०॥
तान्यपि षष्टिः पुत्रसहस्राणि असमञ्जसचरितमेव अनुचक्रुः ॥११॥
ततश्च असमञ्जसचरितानुकारिभिः सागरैः अपध्वस्तयज्ञादिसन्मार्गे जगति देवाः सकलविद्यामयम् असंस्पृष्टम् अशेषदोषैः भगवतः पुरुषोत्तमस्य अंशभूतं कपिलं प्रणम्य तदर्थम् ऊचुः ॥१२॥
“भगवन् एभिः सगरतनयैः असमञ्जसचरितम् अनुगम्यते ॥१३॥
कथमेभिः असद्वृत्तम् अनुसरद्भिः जगद्भविष्यतीति ॥१४॥
अत्यार्तजगत्परित्राणाय च भगवतोऽत्र शरीरग्रहणम्” इत्याकर्ण्य भगवानाह “अल्पैरैव दिनैर्विनङ्क्ष्यन्ति” इति ॥१५॥
अत्रान्तरे च सगरो हयमेधम् आरभत ॥१६॥
तस्य च पुत्रैः अधिष्ठितम् अस्य अश्वं कोऽप्यपहृत्य भुवो बिलं प्रविवेश ॥१७॥
ततः तत्तनयाश्च अश्वखुरगतिनिर्बन्धेन अवनीम् एकैको योजनं चख्नुः ॥१८॥
पाताले चाश्वं परिभ्रमन्तं तम् अवनीपतितनयास्ते ददृशुः ॥१९॥
नातिदूरेऽवस्थितं च भगवन्तम् अपघने शरत्कालेऽर्कमिव तेजोभिः अवनतमूर्धम् अधश्च अशेषदिशश्च उद्भासयमानं हयहर्त्तारं कपिलर्षिम् अपश्यन् ॥२०॥
ततश्च उद्यतायुधा “दुरात्मायम् अस्मदपकारी यज्ञविघ्नकारी हन्यतां हयहर्त्ता हन्यताम्” इति अवोचन् अभ्यधावंश्च ॥२१॥
ततस्तेनापि भगवता किञ्चित् ईषत्परिवर्त्तितलोचनेन अवलोकिताः स्वशरीरसमुत्थेन अग्निना दह्यमाना विनेशुः ॥२२॥
सगरोऽपि अवगम्य अश्वानुसारि तत्पुत्रबलम् अशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततो अंशुमन्तम् असमञ्जसपुत्रम् अश्वानयनाय युयोज ॥२३॥
स तु सगरतनयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥२४॥
अथैनं भगवानाह ॥२५॥
“गच्छैनं पितामहाय अश्वं प्रापय, वरं वृणीष्व च, पुत्रक, पौत्राश्च ते स्वर्गाद्गङ्गां भुवम् आनेष्यन्त” इति ॥२६॥
अथांशुमानपि “स्वर्यातानां ब्रह्मदण्डहतानाम् अस्मत्पितॄणाम् अस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरम् अस्माकं प्रयच्छ” इति प्रत्याह ॥२७॥
तदाकर्ण्य तं च भगवानाह “उक्तमेवैतत् मयाद्य पौत्रस्ते त्रिदिवाद्गङ्गां भुवम् आनेयिष्यति” इति ॥२८॥
तदम्भसा च संस्पृष्टेषु अस्थिभस्मसु एते च स्वर्गमारोक्ष्यन्ति ॥२९॥
भगवद्विष्णुपादाङ्गुष्ठनिर्गतस्य हि जलस्य एतन्माहात्म्यम् ॥३०॥
यन्न केवलमभिसन्धिपूर्वकं स्नानाद्युपभोगेषु उपकारकम् अनभिसंहितमपि अपेतप्राणस्य अस्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयति” इत्युक्तः प्रणम्य भवगते, अश्वमादाय पितामहयज्ञम् आजगाम ॥३१॥
सगरोऽपि अश्वमासाद्य तं यज्ञं समापयामास ॥३२॥
सागरं च आत्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥३३॥
तस्यांशुमतो दिलीपः पुत्रोऽभवत् ॥३४॥
दिलीपस्य भगीरथः योऽसौ गङ्गां स्वर्गादिह आनीय भागीरथीसंज्ञां चकार ॥३५॥
भगीरथात् सुहोत्रः सुहोत्रात् श्रुतः, तस्यापि नाभागः ततोऽम्बरीषः, तत्पुत्रः सिन्धुद्वीपः सिन्धुद्वीपात् अयुतायुः ॥३६॥
तत्पुत्रश्च ऋतुपर्णः, योऽसौ नलसहायो अक्षहृदयज्ञोऽभूत् ॥३७॥
ऋतुपर्णपुत्रः सर्वकामः ॥३८॥
तत्तनयः सुदासः ॥३९॥
सुदासात् सौदासो मित्रसहनामा ॥४०॥
स च अटव्यां मृगयार्थी पर्यटन् व्याघ्रद्वयम् अपश्यत् ॥४१॥
ताभ्यां तद्वनम् अपमृगं कृतं मत्वा एकं तयोः बाणेन जघान ॥४२॥
म्रियमाणः च असौ अतिभीषणाकृतिः अतिकरालवदनो राक्षसोऽभूत् ॥४३॥
द्वितीयोऽपि “प्रतिक्रियां ते करिष्यामि” इत्युक्त्वा अन्तर्धानं जगाम ॥४४॥
कालेन गच्छता सौदासो यज्ञमयजत् ॥४५॥
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्रक्षो वसिष्ठरूपम् आस्थाय “यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणात् आगमिष्यामि” इत्युक्त्वा निष्क्रान्तः ॥४६॥
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥४७॥
असावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ॥४८॥
आगताय वसिष्ठाय निवेदितवान् ॥४९॥
स चाप्यचिन्तयत् “अहो अस्य राज्ञो दौश्शील्यं येन एतन्मांसम् अस्माकं प्रयच्छति किमेतद्द्रव्यजातम्” इति ध्यानपरोऽभवत् ॥५०॥
अपश्यच्च तन्मांसं मानुषम् ॥५१॥
अतः क्रोधकलुषीकृतचेता राजनि शापमुत्ससर्ज ॥५२॥
“यस्मात् अभोज्यमेतत् अस्मद्विधानां तपस्विनाम् अवगच्छन्नपि भवान् मह्यं ददाति तस्मात् तवैवात्र लोलुपता भविष्यति” इति ॥५३॥
अनन्तरं च तेनापि “भगवता एवाभिहितो अस्मि” इत्युक्ते “किं किं मयाभिहितम्” इति मुनिः पुनरपि समाधौ तस्थौ ॥५४॥
समाधिविज्ञानावगतार्थः च अनुग्रहं तस्मै चकार “नात्यन्तिकम् एतत् द्वादशाब्दं तव भोजनं भविष्यति” इति ॥५५॥
असावपि प्रतिगृह्योदकाञ्जलिं मुनिशापप्रदानाय उद्यतो “भगवन् अयम् अस्मद्गुरुः नार्हसि एनं कुलदेवताभूतम् आचार्यं शप्तुम्” इति मदयन्त्या स्वपत्न्या प्रसादितः । शस्याम्बुदरक्षणार्थं तच्छापाम्बु नोर्व्यां न चाकाशे चिक्षेप, किं तु तेनैव स्वपादौ सिषेच ॥५६॥
तेन च क्रोधाश्रितेनाम्बुना दग्धच्छायौ तत्पादौ कल्माषताम् उपगतौ ततः स कल्माषपादसंज्ञाम् अवाप ॥५७॥
वसिष्ठशापाच्च षष्ठे षष्ठे काले राक्षसस्वभावमेत्याटव्यां पर्यटन् अनेकशो मानुषान् अभक्षयत् ॥५८॥
एकदा तु कञ्चिन्मुनिम् ऋतुकाले भार्यासङ्गतं ददर्श ॥५९॥
तयोश्च तमतिभीषणं राक्षसस्वरूपम् अवलोक्य त्रासात् दम्पत्योः प्रधावितयोः ब्राह्मणं जग्राह ॥६०॥
ततस्सा ब्राह्मणी बहुशः तम् अभियाचितवती ॥६१॥
“प्रसीद इक्ष्वाकुकुलतिलकभूतः त्वं महाराजो मित्रसहो न राक्षसः ॥६२॥
नार्हसि स्त्रीधर्मसुखाभिज्ञो मयि अकृतार्थायाम् अस्मद्भर्त्तारं हन्तुम्” इत्येवं बहुप्रकारं तस्यां विलपन्त्यां, व्याघ्रः पशुमिवारण्येऽभिमतं तं ब्राह्मणम् अभक्षयत् ॥६३॥
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥६४॥
“यस्मादेवं मयि अतृप्तायां त्वया अयं मत्पतिः भक्षितः तस्मात् त्वमपि कामोपभोगप्रवृत्तोऽन्तं प्राप्स्यसि” इति ॥६५॥ शप्त्वा चैवं सा अग्निं प्रविवेश ॥६६॥
ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयन्ती तं स्मारयामास ॥६७॥
ततः परम् असौ स्त्रीभोगं तत्याज ॥६८॥
वसिष्ठश्च अपुत्रेण राज्ञा पुत्रार्थम् अभ्यर्थितो मदयन्त्यां गर्भाधानं चकार ॥६९॥
यदा च सप्तवर्षाण्यसौ गर्भो न जज्ञे, ततस्तं गर्भमश्मना सा देवी जघान ॥७०॥
पुत्रः च अजायत ॥७१॥
तस्य च अश्मक इत्येव नामाभवत् ॥७२॥
अश्मकस्य मूलको नाम पुत्रोऽभवत् ॥७३॥
योऽसौ निःक्षत्रे क्ष्मातलेऽस्मिन् क्रियमाणे स्त्रीभिः विवस्त्राभिः परिवार्य रक्षितः ततः तं नारीकवचम् उदाहरन्ति ॥७४॥
मूलकात् दशरथः तस्माच् इलिविलः ततश्च विश्वसहः ॥७५॥
तस्माच्च खट्वाङ्गो योऽसौ देवासुरसङ्ग्रामे देवैः अभ्यर्थितः असुरान् जघान ॥७६॥
स्वर्गे च कृतप्रियैः देवैः वरग्रहणाय चोदितः प्राह ॥७७॥
“यद्यवश्यं वरो ग्राह्यः तन्मम आयुः कथ्यताम्” इति ॥७८॥
अनन्तरं च तैरुक्तम् “एकमुहूर्तप्रमाणं तवायुः” इत्युक्तः अथ अस्खलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकम् आगम्य इदमाह ॥७९॥
“यथा न ब्राह्मणेभ्यः सकाशात् आत्मापि मे प्रियतरः, न च स्वधर्मोल्लङ्घनं मया कदाचिदपि अनुष्ठितं, न च सकलदेवमानुषपशुपक्षिवृक्षादिकेषु अच्युतव्यतिरेकवती दृष्टिः मम अभूत्, तथा तमेवं मुनिजनानुस्मृतं भगवन्तम् अस्खलितगतिः प्रापयेयम्” इति अशेषदेवगुरौ भगवति अनिर्द्देश्यवपुषि सत्तामात्रात्मनि आत्मानं परमात्मनि वासुदेवाख्ये युयोज । तत्रैव च लयमवाप ॥८०॥
अत्रापि श्रूयते श्लोको गीतः सप्तर्षिभिः पुरा ।खट्वाङ्गेन समो नान्यः कश्चिदुर्व्यां भविष्यति ॥८१॥
येन स्वर्गादिहागम्य मुहूर्त्तं प्राप्य जीवितम् ।त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ॥८२॥
खट्वाङ्गात् दीर्घबाहुः पुत्रोऽभवत् ॥८३॥
ततो रघुरभवत् ॥८४॥
तस्मादपि अजः ॥८५॥
अजात् दशरथः ॥८६॥
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थम् आत्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्द्धा पुत्रत्वम् आयासीत् ॥८७॥
रामोपि बाल एव विश्वामित्रयागरक्षणाय गच्छन् ताटकां जघान ॥८८॥
यज्ञे च मारीचम् इषुवाताहतं समुद्रे चिक्षेप ॥८९॥
सुबाहुप्रमुखांश्च क्षयमनयत् ॥९०॥
दर्शनमात्रेण अहल्यामपापां चकार ॥९१॥
जनकगृहे च माहेश्वरं चापम् अनायासेन बभञ्ज ॥९२॥
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ॥९३॥
सकलक्षत्रियक्षयकारिणम् अशेषहैहयकुलधूमकेतुभूतं च परशुरामम् अपास्तवीर्यबलावलेपं चकार ॥९४॥
पितृवचनाच्च अगणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ॥९५॥
विराधखरदूषणादीन् कबन्धवालिनौ च निजघान ॥९६॥
बद्ध्वा च अम्भोनिधिम् अशेषराक्षसकुलक्षयं कृत्वा, दशाननापहृतां भार्यां तद्वधात् अपहृताकलङ्कामपि अनलप्रवेशशुद्धाम् अशेषदेवसङ्घैः स्तूयमानशीलां जनकराजकन्याम् अयोध्याम् आनिन्ये ॥९७॥
ततश्चाभिषेकमङ्गलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते सङ्क्षेपेण श्रूयताम् ॥९८॥
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवाङ्गदजाम्बवद्धनुमत्प्रभृतिभिः सम्पत्फुल्लवदनैः छत्रचामरादियुतैः सेव्यमानो दाशरथिः ब्रह्मेन्द्राग्नियमनिरृतिवरुणवायुकुबेरेशानप्रभृतिभिः सर्वामरैः वसिष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्त्यप्रभृतिभिः मुनिवरैः ऋग्यजुस्सामाथर्वभिः संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमङ्गलवाद्यैः वीणावेणुमृदङ्गभेरीपटहशङ्खकाहलगोमुखप्रभृतिभिः सुनादैः समस्तभूभृतां मध्ये सकललोकरक्षार्थं यथोचितम् अभिषिक्तो दाशरथिः कोसलेन्द्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियः सिंहासनगत एकादशाब्दसहस्रं राज्यम् अकरोत् ॥९९॥
भरतोपि गन्धर्वविषयसाधनाय गच्छन् संग्रामे गन्धर्वकोटीः तिस्रो जघान ॥१००॥
शत्रुघ्नेनापि अमितबलपराक्रमो मधुपुत्रो लवणो नाम राक्षसो निहतो मथुरा च निवेशिता ॥१०१॥
इत्येवमाद्यतिबलपराक्रमविक्रमणैः अतिदुष्टसंहारिणो अशेषस्य जगतो निष्पादितस्थितयो रामलक्ष्मणभरतशत्रुघ्नाः पुनरपि दिवमारूढाः ॥१०२॥
येऽपि तेषु भगवदंशेषु अनुरागिणः कोसलनगरजानपदाः तेऽपि तन्मनसः तत्सालोक्यताम् अवापुः ॥१०३॥
अतिदुष्टसंहारिणो रामस्य कुशलवौ द्वौ पुत्रौ, लक्ष्मणस्य अङ्गदचन्द्रकेतू, तक्षपुष्कलौ भरतस्य, सुबाहुशूरसेनौ शत्रुघ्नस्य ॥१०४॥
कुशस्य अतिथिः, अतिथेरपि निषधः पुत्रोऽभूत् ॥१०५॥
निषधस्यापि अनलः, तस्मादपि नभाः, नभसः पुंडरीकः, तत्तनयः क्षेमधन्वा, तस्य च देवानीकः तस्यापि अहीनकः, अहीनकस्यापि रुरुः तस्य च पारियात्रकः, पारियात्रकात् देवलो, देवलात् वच्चलः, तस्यापि उत्कः, उत्काच्च वज्रनाभः, तस्मात् शङ्खणः, तस्मात् युषिताश्वः, ततश्च विश्वसहो जज्ञे ॥१०६॥
तस्मात् हिरण्यनाभो यो महायोगीश्वरात् जैमिनेः शिष्यात् याज्ञवल्क्यात् योगमवाप ॥१०७॥
हिरण्यनाभस्य पुत्रः पुष्यः, तस्माद् ध्रुवसन्धिः, ततः सुदर्शनः, तस्मादग्निवर्णः, ततः शीघ्रगः, तस्मादपि मरुः पुत्रोऽभवत् ॥१०८॥
योऽसौ योगमास्थाय अद्यापि कलापग्रामम् आश्रित्य तिष्ठति ॥१०९॥
आगामियुगे सूर्यवंशक्षत्रव्रतप्रवर्तयिता भविष्यति ॥११०॥
तस्यात्मजः प्रशुश्रुतः, तस्यापि सुसन्धिः, ततश्चापि अमर्षः, तस्य च सहस्वान्, ततश्च विश्वभवः ॥१११॥
तस्य बृहद्बलः योऽर्जुनतनयेन अभिमन्युना भारतयुद्धे क्षयम् अनीयत ॥११२॥
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः ।एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥११३॥
॥ इति श्रीविष्णुमहापुराणे चतुर्थेंऽशे चतुर्थोऽध्यायः ॥।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.