Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 3
  6. अध्यायः १२

विष्णुपुराणम् · Amsha 3

अध्यायः १२

संस्कृतEnglish
Ask AI

॥ अथ द्वादशोऽध्यायः ॥(गृहस्थाचारकथनम्)और्व उवाचदेवगोब्राहमणान् सिद्धान् वृद्धाचार्यांस्तथार्चयेत् ।द्विकालञ्च नमेत् सन्ध्यामग्नीनुपचरेत् तथा ॥१॥

सदानुपहते वस्त्रे प्रशस्ताश्च महौषधीः ।गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥२॥

प्रस्निग्धामलकेशश्च सुगन्धिश्चारुवेषधृक् ।सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा ॥३॥

किञ्चित् परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् ।प्रियञ्च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥४॥

नान्यश्रियं तथा वैरं रोचयेत् पुरुषर्षभ ।न दुष्टं यानमारोहेत् कूलच्छाया न संश्रयेत् ॥५॥

विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः ।बन्धकी बन्धकीभर्तुः क्षुद्रानृतकथैस्सह ॥६॥

तथातिव्ययशीलैश्च परिवादरतैश्शठैः ।बुधो मैत्रीं न कुर्वीत नैकः पन्थानमाश्रयेत् ॥७॥

नावगाहेज्जलौघस्य वेगमग्रे नरेश्वर ।प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः ॥८॥

न कुर्याद्दन्तसङ्घर्षं कुष्णीयाच्च न नासिकाम् ।नासंवृतमुखो जृम्भेच्छ्वासकासौ विसर्जयेत् ॥९॥

नोच्चैर्हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः ।नखान्न खादयेच्छिन्द्यान्न तृणं न महीं लिखेत् ॥१०॥

न श्मश्रु भक्षयेल्लोष्टं न मृद्नीयाद्विचक्षणः ।ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥११॥

नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये ।न हुङ्कुर्याच्छवं गन्धं शवगन्धो हि सोमजः ॥१२॥

चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।दुष्टस्त्रीसन्निकर्षं च वर्जयेन्निशि सर्वदा ॥१३॥

पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः ।नैकश्शून्याटवीं गच्छेत् तथा शून्यगृहे वसेत् ॥१४॥

केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा ।स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥१५॥

नानार्यानाश्रयेत् कांश्चिन्न जिह्मं रोचयेद्बुधः ।उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥१६॥

अतीव जागरस्वप्ने तद्वत्स्नानासने बुधः ।न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥१७॥

दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् ।अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥१८॥

न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः ।मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥१९॥

होमदेवार्चनाद्यासु क्रियास्वाचमने तथा ।नैकवस्त्रः प्रवर्तेत द्विजवाचनिके जपे ॥२०॥

नासमञ्जसशीलैस्तु सहासीत कथञ्चन ।सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते ॥२१॥

विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः ।विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥२२॥

नारभेत कलिं प्राज्ञः शुष्कवैरञ्च वर्जयेत् ।अप्यल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत् ॥२३॥

स्नातो नाङ्गानि सम्मार्जेत् स्नानशाट्या न पाणिना ।न च निर्धूनयेत् केशान् नाचामेच्चैव चोत्थितः ॥२४॥

पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ।नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥२५॥

अपसव्यं न गच्छेच्च देवागारचतुष्पथान् ।माङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम् ॥२६॥

सोमार्काग्न्यम्बुवायूनां पूज्यानाञ्च न सम्मुखम् ।कुर्यान्निष्ठीवविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥२७॥

तिष्ठन्न मूत्रयेत् तद्वत् पथिष्वपि न मूत्रयेत् ।श्लैष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥२८॥

श्लेष्मशिङ्घाणिकोत्सर्गो नान्नकाले प्रशस्यते ।बलिमङ्गलजप्यादौ न होमे न महाजने ॥२९॥

योषितो नावमन्येत न चासां विश्वसेद् बुधः ।न चैवेर्ष्या र्भवेत्तासु न धिक्कुर्यात् कदाचन ॥३०॥

माङ्गल्यपुष्परत्नाज्यपूज्याननभिवाद्य च ।न निष्क्रमेद्गृहात् प्राज्ञः सदाचारपरो नरः ॥३१॥

चतुष्पथान् नमस्कुर्यात् काले होमपरो भवेत् ।दीनानभ्युद्धरेत् साधूनुपासीत बहुश्रुतान् ॥३२॥

देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः ।सत्कर्ता चातिथीनां यः स लोकानुत्तमान् व्रजेत् ॥३३॥

हितं मितं प्रियं काले वश्यात्मा योऽभिभाषते ।स याति लोकानाह्लादहेतुभूतान् नृपाक्षयान् ॥३४॥

धीमान् ह्रीमान् क्षमायुक्तो ह्यास्तिको विनयान्वितः ।विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥३५॥

अकालगर्जितादौ च पर्वस्वाशौचकादिषु ।अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥३६॥

शमं नयति यः क्रुद्धान् सर्वबन्धुरमत्सरी ।भीताश्वासनकृत् साधुः स्वर्गस्तस्याल्पकं फलम् ॥३७॥

वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च ।शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥३८॥

नोर्ध्वं न तिर्यग्दूरं वा न पश्यन् पर्यटेद्बुधः ।युगमात्रं महीपृष्ठं नरो गच्छेद्विलोकयन् ॥३९॥

दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति ।तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥४०॥

सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः ।पापेऽप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः ।मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥४१॥

ये कामक्रोधलोभानां वीतरागा न गोचरे ।सदाचारस्थितास्तेषामनुभावैर्धृता मही ॥४२॥

तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम् ।सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ॥४३॥

प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम् ॥४४॥

प्राणिनामुपकाराय यथैवेह परत्र च ।कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥४५॥

॥ इति श्रीविष्णुपुराणे तृतीयांशे द्वादशोऽध्यायः ॥

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ११अध्यायः १३

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata