Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 3
  6. अध्यायः ११

विष्णुपुराणम् · Amsha 3

अध्यायः ११

संस्कृतEnglish
Ask AI

॥ अथ एकादशोऽध्यायः ॥(गृहस्थसदाचाराणां मूत्रपुरीषोत्सर्गविधेश्च वर्णनम्)सगर उवाचगृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने ।लोकादस्मात् परस्माच्च यमातिष्ठन्न हीयते ॥१॥

और्व उवाचश्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् ।सदाचारवता पुंसा जितौ लोकावुभावपि ॥२॥

साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः ।तेषामाचरणं यस्तु सदाचारस्स उच्यते ॥३॥

सप्तर्षयोऽथ मनवः प्रजानां पतयस्तथा ।सदाचारस्य वक्तारः कर्तारश्च महीपते ॥४॥

ब्राह्मे मुहूर्त्ते चोत्थाय मनसा मतिमान्नृप ।प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥५॥

अपीडया तयोः काममुभयोरपि चिन्तयेत् ।दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिता ॥६॥

परित्यजेदर्थकामौ धर्मपीडाकरौ नृप ।धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च ॥७॥

ततः कल्यं समुत्थाय कुर्यान्मैत्रं नरेश्वर ॥८॥

नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ।दूरादावसथान्मूत्रं पुरीषं च विसर्जयेत् ॥९॥

पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे ॥१०॥

आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा ।गुरुद्विजादींस्तु बुधो नाधिमेहेत् कदाचन ॥११॥

न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि ।न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥१२॥

नाप्सु नैवाम्भसस्तीरे श्मशाने न समाचरेत् ।उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥१३॥

उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि ।कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥१४॥

तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः ।तिष्ठेन्नातिचिरं तत्र नैव किंचिदुदीरयेत् ॥१५॥

वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा ।शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ॥१६॥

अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव ।परित्यजेन्मृदो ह्येतास्सकलाश्शौचकर्मणि ॥१७॥

एका लिंगे गुदे तिस्रो दश वामकरे नृप ।हस्तद्वये च सप्त स्युर्मृदश्शौचोपपादिकाः ॥१८॥

अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च ।आचामेच्च मृदं भूयस्तथा दद्यात् समाहितः ॥१९॥

निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य वै पुनः ।त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥२०॥

शीर्षण्यानि ततः खानि मूर्द्धानं च समालभेत् ।बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥२१॥

आचांतस्तु ततः कुर्यात् पुमान् केशप्रसाधनम् ।आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालम्भनानि च ॥२२॥

ततस्स्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् ।कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते ॥२३॥

सोमसंस्था हविस्संस्थाः पाकसंस्थास्तु संस्थिताः ।धने यतो मनुष्याणां यतेतातो धनार्जने ॥२४॥

नदीनदतटाकेषु देवखातजलेषु च ।नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥२५॥

कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।गृहेषूद्धृततोयेन ह्यथवा भुव्यसम्भवे ॥२६॥

शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।तेषामेव हि तीर्थेन कुर्वीत सुसमाहितः ॥२७॥

त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥२८॥

पितॄणां प्रीणनार्थाय तदपः पृथिवीपते ।पितामहेभ्यश्च तथा प्रीणयेत्प्रपितामहान् ॥२९॥

मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।दद्यात्पैत्रेण तीर्थेन काम्यं चान्यच्छृणुष्व मे ॥३०॥

मात्रे प्रमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप ।गुरूणां मातुलानां च स्निग्धमित्राय भूभुजे ॥३१॥

इदं चापि जपेदम्बु दद्यादात्मेच्छया नृप ।उपकाराय भूतानां कृतदेवादितर्पणम् ॥३२॥

देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः ।पिशाचा गुह्यकास्सिद्धाः कूष्माण्डाः पशवः खगाः ॥३३॥

जलेचरा भूनिलया वाय्वाहाराश्च जन्तवः ।तृप्तिमेतेन यान्त्याशु मद्दत्तेनाम्बुनाऽखिलाः ॥३४॥

नरकेषु समस्तेषु यातनासु च संस्थिताः ।तेषामाप्यायनायैतद्दीयते सलिलं मया ॥३५॥

ये बान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः ।ते तृप्तिमखिला यान्तु ये चास्मत्तोयकाङ्क्षिणः ॥३६॥

यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥३७॥

काम्योदकप्रदानं ते मयैतत्कथितं नृप ।यद्दत्त्वा प्रीणयत्येतन्मनुष्यस्सकलं जगत् ।जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानघ ॥३८॥

दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः ।आचम्य च ततो दद्यात्सूर्याय सलिलांजलिम् ॥३९॥

नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे ।जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥४०॥

ततो गृहाऽर्चनं कुर्यादभीष्टसुरपूजनम् ।जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ॥४१॥

अपूर्वमग्निहोत्रं च कुर्यात्प्राग्ब्रह्मणे नृप ॥४२॥

प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् ।गृहेभ्यः काश्यपायाथ ततोनुमतये क्रमात् ॥४३॥

तच्छेषं मणिके पृथ्वीपर्जन्येभ्यः क्षिपेत्ततः ।द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ॥४४॥

गृहस्य पुरषव्याघ्र दिग्देवानपि मे शृणु ॥४५॥

इंद्रा य धर्मराजाय वरुणाय तथेंदवे ।प्राच्यादिषु बुधो दद्याद्धुतश्षोआ!त्मकं बलिम् ॥४६॥

प्रागुत्तरे च दिग्भागे धन्वंतारिबलिं बुधः ।निर्वपैद्वैश्वदेवं च कर्म कुर्य्यादतः परम् ॥४७॥

वायव्यां वायवे दिक्षु समस्तासु यथादिशम् ।ब्रह्मणे चांतरिक्षाय भानवे च क्षिपेद्बलिम् ॥४८॥

विश्वेदेवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् ।यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥४९॥

ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः ।दद्यादश्षोभूतेभ्यस्स्वेच्छया सुसमाहितः ॥५०॥

51देवा मनुष्याः पशवो वयांसि सिद्धास्सयक्षोरगदैत्यसङ्घाः ।प्रतोः पिशाचास्तरवस्समस्ता ये चान्नमिच्छन्ति मयात्र दत्तम् ५१ ।

52पिपीलिकाः कीटपतंङ्गकाद्या बुभुक्षिताः कर्मनिबंधबद्धाः ।प्रयांति ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवंतु ५२ ।

येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नमस्ति ।तत्तृप्तयेऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु ॥५३॥

भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोऽन्यदस्ति ।तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ॥५४॥

चतुर्दशो भूतगणो य एषः तत्र स्थिता येऽखिलभूतसङ्घाः ।तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु ॥५५॥

इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः ।भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥५६॥

श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर ।ये चान्ये पतिताः केचिदपुत्राः सन्ति मानवाः ॥५७॥

ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे ।अतिथिग्रहणार्थाय तदूर्ध्वं तु यथेच्छया ॥५८॥

अतिथिं तत्र सम्प्राप्तं पूजयेत् स्वागतादिना ।तथासनप्रदानेन पादप्रक्षालनेन च ॥५९॥

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ॥६०॥

अज्ञातकुलनामानमन्यदेशादुपागतम् ।पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ॥६१॥

अकिञ्चनमसम्बन्धमज्ञातकुलशालिनम् ।असम्पूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥६२॥

स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् ।हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥६३॥

पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप ।तद्देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञिकम् ॥६४॥

अन्नाग्रं च समुद्धृत्य हन्तकारोपकल्पितम् ।निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥६५॥

दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥६६॥

इत्येतेऽतिथयः प्रोक्ता प्रागुक्ता भिक्षवश्च ये ।चतुरः पूजयित्वैतान्नृप पापात् प्रमुच्यते ॥६७॥

अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते ।स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥६८॥

धाता प्रजापतिः शक्रो वह्निर्वसुगणोऽर्यमा ।प्रविश्यातिथिमेते वै भुञ्जन्तेऽन्नं नरेश्वर ॥६९॥

तस्मादतिथिपूजायां यतेत सततं नरः ।स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना ॥७०॥

ततः सुवासिनीदुःखिगर्भिणीवृद्धबालकान् ।भोजयेत् संस्कृतान्नेन प्रथमं चरमं गृही ॥७१॥

अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्ते स दुष्कृतम् ।मृतश्च गत्वा नरकं श्लेष्मभुग्जायते नरः ॥७२॥

अस्नाताशी मलं भुङ्क्ते ह्यजपी पूयशोणितम् ।असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत् ॥७३॥

अहोमी च कृमीन् भुङ्क्ते अदत्त्वा विषमश्नुते ॥७४॥

तस्माच्छृणुष्व राजेन्द्र यथा भुञ्जीत वै गृही ।भुञ्जतश्च यथा पुंसः पापबन्धो न जायते ॥७५॥

इह चारोग्यविपुलं बलबुद्धिस्तथा नृप ।भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिणः ॥७६॥

स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् ।प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥७७॥

कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप ।दत्त्वाऽतिथिभ्यो विप्रेभ्यो गुरुभ्यस्संश्रिताय च ।पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर ॥७८॥

नैकवस्त्रधरो नार्द्रपाणिपादो महीपते ।विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥७९॥

प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥८०॥

न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् ।दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ॥८१॥

प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः ॥८२॥

नासन्दिसंस्थिते पात्रे नादेशे च नरेश्वर ।नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरोऽग्नये ॥८३॥

मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप ।अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात् तथा ॥८४॥

तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च ।भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥८५॥

न शेषं पुरुषोऽश्नीयादन्यत्र जगतीपते ।मध्वम्बुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् ॥८६॥

अश्नीयात् तन्मयो भूत्वा पूर्वं तु मधुरं रसम् ।लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः ॥८७॥

प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये कठिनभोजनः ।अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥८८॥

अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् ।पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥८९॥

भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा ।यथावत् पुनराचामेत् पाणी प्रक्षाल्य मूलतः ॥९०॥

स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥९१॥

अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः ।दत्तावकाशं नभसा जरयत्यस्तु मे सुखम् ॥९२॥

अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ॥९३॥

प्राणापानसमानानामुदानव्यानयोस्तथा ।अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥९४॥

अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् ।सुखं च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहे ॥९५॥

विष्णुः समस्तेन्द्रियदेहदेही वृथा न भूतो भगवान् यथैकः ।सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु ॥९६॥

विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा ।सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा ॥९७॥

इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।अनायासप्रदायीनि कुर्यात् कर्माण्यतन्द्रितः ॥९८॥

सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।दिनं नयेत् ततस्सन्ध्यामुपतिष्ठेत् समाहितः ॥९९॥

दिनान्तसन्ध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः ।उपतिष्ठेद्यथान्याय्यं सम्यगाचम्य पार्थिव ॥१००॥

101सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते ।अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥१०१।

सूर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् ।अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥१०२॥

तस्मादनुदिते सूर्ये समुत्थाय महीपते ।उपतिष्ठेन्नरस्सन्ध्यामस्वपंश्च दिनान्तजाम् ॥१०३॥

उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।व्रजन्ति ते दुरात्मानस्तमिस्रं नरकं नृप ॥१०४॥

पुनः पाकमुपादाय सायमप्यवनीपते ।वैश्वदेवनिमित्तं वै पत्न्यमन्त्रं बलिं हरेत् ॥१०५॥

तत्रापि श्वपचादिभ्यस्तथैवान्नविसर्जनम् ॥१०६॥

अतिथिं चागतं तत्र स्वशक्तया पूजयेद्बुधः ।पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ।ततश्चान्नप्रदानेन शयनेन च पार्थिव ॥१०७॥

दिवातिथौ तु विमुखे गते यत्पातकं नृप ।तदेवाष्टगुणं पुंसस्सूर्योढे विमुखे गते ॥१०८॥

तस्मात् स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः ।पूजयेत् पूजिते तस्मिन् पूजितास्सर्वदेवताः ॥१०९॥

अन्नशाकाम्बुदानेन स्वशक्त्या पूजयेत् पुमान् ।शयनप्रस्तरमहीप्रदानैरथवापि तम् ॥११०॥

कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही ।गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ॥१११॥

नाविशालां न वै भुग्नां नासमां मलिनां न च ।न च जन्तुमयीं शय्यामधितिष्ठेदनास्तृताम् ॥११२॥

प्राच्यां दिशि शिरश्शस्तं याम्यायामथ वा नृप ।सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥११३॥

ऋतावुपगमश्शस्तस्स्वपत्न्यामवनीपते ।पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥११४॥

नाद्यूनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।नानिष्टां न प्रकुपितां न त्रस्तां न च गर्भिणीम् ॥११५॥

नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुणैर्युतः ॥११६॥

स्नातस्स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितोऽपि वा ।सकामस्सानुरागश्च व्यवायं पुरुषो व्रजेत् ॥११७॥

चतुर्दश्यष्टमी चैव तथामा चाथ पूर्णिमा ।पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च ॥११८॥

तैलस्त्रीमांससम्भोगी सर्वेष्वेतेषु वै पुमान् ।विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥११९॥

अशेषपर्वस्वेतेषु तस्मात् संयमिभिर्बुधैः ।भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥१२०॥

नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा ।द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् ॥१२१॥

चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे ।नैव श्मशानोपवने सलिलेषु महीपते ॥१२२॥

प्रोक्तपर्वस्वशेषेषु नैव भूपाल सन्ध्ययोः ।गच्छेद्व्यवायं मनसा न मूत्रोच्चारपीडितः ॥१२३॥

पर्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ।भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥१२४॥

परदारान्न गच्छेत मनसापि कथञ्चन ।किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवायिनाम् ॥१२५॥

मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः ।परदाररतिः पुंसामिह चामुत्र भीतिदा ॥१२६॥

इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥१२७॥

॥ इति श्रीविष्णुपुराणे तृतीयांशे एकादशोऽध्यायः ॥

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १०अध्यायः १२

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata