श्रीमद्वाल्मीकीय रामायणम् · Yuddha Kanda
सर्गः १४
Ask AIश्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥
निशाचरेन्द्रस्य निशम्य वाक्यंस कुम्भकर्णस्य च गर्जितानि।विभीषणो राक्षसराजमुख्य-मुवाच वाक्यं हितमर्थयुक्तम्॥ १॥
वृतो हि बाह्वन्तरभोगराशि-श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः।पञ्चाङ्गुलीपञ्चशिरोऽतिकायःसीतामहाहिस्तव केन राजन्॥ २॥
यावन्न लङ्कां समभिद्रवन्तिबलीमुखाः पर्वतकूटमात्राः।दंष्ट्रायुधाश्चैव नखायुधाश्चप्रदीयतां दाशरथाय मैथिली॥ ३॥
यावन्न गृह्णन्ति शिरांसि बाणारामेरिता राक्षसपुंगवानाम्।वज्रोपमा वायुसमानवेगाःप्रदीयतां दाशरथाय मैथिली॥ ४॥
न कुम्भकर्णेन्द्रजितौ च राजं-स्तथा महापार्श्वमहोदरौ वा।निकुम्भकुम्भौ च तथातिकायःस्थातुं समर्था युधि राघवस्य॥ ५॥
जीवंस्तु रामस्य न मोक्ष्यसे त्वंगुप्तः सवित्राप्यथवा मरुद्भिः।न वासवस्याङ्कगतो न मृत्यो-र्नभो न पातालमनुप्रविष्टः॥ ६॥
निशम्य वाक्यं तु विभीषणस्यततः प्रहस्तो वचनं बभाषे।न नो भयं विद्म न दैवतेभ्योन दानवेभ्योऽप्यथवा कदाचित्॥ ७॥
न यक्षगन्धर्वमहोरगेभ्योभयं न संख्ये पतगोरगेभ्यः।कथं नु रामाद् भविता भयं नोनरेन्द्रपुत्रात् समरे कदाचित्॥ ८॥
प्रहस्तवाक्यं त्वहितं निशम्यविभीषणो राजहितानुकाङ्क्षी।ततो महार्थं वचनं बभाषेधर्मार्थकामेषु निविष्टबुद्धिः॥ ९॥
प्रहस्त राजा च महोदरश्चत्वं कुम्भकर्णश्च यथार्थजातम्।ब्रवीत रामं प्रति तन्न शक्यंयथा गतिः स्वर्गमधर्मबुद्धेः॥ १०॥
वधस्तु रामस्य मया त्वया चप्रहस्त सर्वैरपि राक्षसैर्वा।कथं भवेदर्थविशारदस्यमहार्णवं तर्तुमिवाप्लवस्य॥ ११॥
धर्मप्रधानस्य महारथस्यइक्ष्वाकुवंशप्रभवस्य राज्ञः।पुरोऽस्य देवाश्च तथाविधस्यकृत्येषु शक्तस्य भवन्ति मूढाः॥ १२॥
तीक्ष्णा न तावत् तव कङ्कपत्रादुरासदा राघवविप्रमुक्ताः।भित्त्वा शरीरं प्रविशन्ति बाणाःप्रहस्त तेनैव विकत्थसे त्वम्॥ १३॥
भित्त्वा न तावत् प्रविशन्ति कायंप्राणान्तिकास्तेऽशनितुल्यवेगाः।शिताः शरा राघवविप्रमुक्ताःप्रहस्त तेनैव विकत्थसे त्वम्॥ १४॥
न रावणो नातिबलस्त्रिशीर्षोन कुम्भकर्णस्य सुतो निकुम्भः।न चेन्द्रजिद् दाशरथिं प्रवोढुंत्वं वा रणे शक्रसमं समर्थः॥ १५॥
देवान्तको वापि नरान्तको वातथातिकायोऽतिरथो महात्मा।अकम्पनश्चाद्रिसमानसारःस्थातुं न शक्ता युधि राघवस्य॥ १६॥
अयं च राजा व्यसनाभिभूतोमित्रैरमित्रप्रतिमैर्भवद्भिः।अन्वास्यते राक्षसनाशनार्थेतीक्ष्णः प्रकृत्या ह्यसमीक्षकारी॥ १७॥
अनन्तभोगेन सहस्रमूर्ध्नानागेन भीमेन महाबलेन।बलात् परिक्षिप्तमिमं भवन्तोराजानमुत्क्षिप्य विमोचयन्तु॥ १८॥
यावद्धि केशग्रहणात् सुहृद्भिःसमेत्य सर्वैः परिपूर्णकामैः।निगृह्य राजा परिरक्षितव्योभूतैर्यथा भीमबलैर्गृहीतः॥ १९॥
सुवारिणा राघवसागरेणप्रच्छाद्यमानस्तरसा भवद्भिः।युक्तस्त्वयं तारयितुं समेत्यकाकुत्स्थपातालमुखे पतन् सः॥ २०॥
इदं पुरस्यास्य सराक्षसस्यराज्ञश्च पथ्यं ससुहृज्जनस्य।सम्यग्घि वाक्यं स्वमतं ब्रवीमिनरेन्द्रपुत्राय ददातु मैथिलीम्॥ २१॥
परस्य वीर्यं स्वबलं च बुद्ध्वास्थानं क्षयं चैव तथैव वृद्धिम्।तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्यावदेत् क्षमं स्वामिहितं स मन्त्री॥ २२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥६-१४॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.