Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Uttara Kanda
  6. सर्गः १०९

श्रीमद्वाल्मीकीय रामायणम् · Uttara Kanda

सर्गः १०९

Ask AI

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। ७.१०९.१ ।।

अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।वाजपेयातपत्रं च शोभमानं महापथे ।। ७.१०९.२ ।।

ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ।। ७.१०९.३ ।।

ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ।। ७.१०९.४ ।।

अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ।। ७.१०९.५ ।।

रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ।। ७.१०९.६ ।।

शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ।। ७.१०९.७ ।।

वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ।। ७.१०९.८ ।।

ऋषयश्च महात्मानः सर्व एव महीसुराः ।अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ।। ७.१०९.९ ।।

तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ।। ७.१०९.१० ।।

सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ।। ७.१०९.११ ।।

ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ।। ७.१०९.१२ ।।

मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ।। ७.१०९.१३ ।।

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ।। ७.१०९.१४ ।।

ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ।। ७.१०९.१५ ।।

स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ।। ७.१०९.१६ ।।

न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः ।हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ।। ७.१०९.१७ ।।

द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः ।यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ।। ७.१०९.१८ ।।

ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ।। ७.१०९.१९ ।।

यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च ।राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ।। ७.१०९.२० ।।

यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ।। ७.१०९.२१ ।।

नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ।। ७.१०९.२२ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवाधिकशततमः सर्गः ।। १०९ ।।

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः १०८सर्गः ११०

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu