Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Sundara Kanda
  6. सर्गः ५२

श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda

सर्गः ५२

Ask AI

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५-२॥

स तस्य वचनं श्रुत्वा वानरस्य महात्मनः।आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः॥ १॥

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना।निवेदितवतो दौत्यं नानुमेने विभीषणः॥ २॥

तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्।विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः॥ ३॥

निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्।उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः॥ ४॥

क्षमस्व रोषं त्यज राक्षसेन्द्रप्रसीद मे वाक्यमिदं शृणुष्व।वधं न कुर्वन्ति परावरज्ञादूतस्य सन्तो वसुधाधिपेन्द्राः॥ ५॥

राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्।तव चासदृशं वीर कपेरस्य प्रमापणम्॥ ६॥

धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः।परावरज्ञो भूतानां त्वमेव परमार्थवित्॥ ७॥

गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः।ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्॥ ८॥

तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद।युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्॥ ९॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत्॥ १०॥

न पापानां वधे पापं विद्यते शत्रुसूदन।तस्मादिमं वधिष्यामि वानरं पापकारिणम्॥ ११॥

अधर्ममूलं बहुदोषयुक्त-मनार्यजुष्टं वचनं निशम्य।उवाच वाक्यं परमार्थतत्त्वंविभीषणो बुद्धिमतां वरिष्ठः॥ १२॥

प्रसीद लङ्केश्वर राक्षसेन्द्रधर्मार्थतत्त्वं वचनं शृणुष्व।दूता न वध्याः समयेषु राजन्सर्वेषु सर्वत्र वदन्ति सन्तः॥ १३॥

असंशयं शत्रुरयं प्रवृद्धःकृतं ह्यनेनाप्रियमप्रमेयम्।न दूतवध्यां प्रवदन्ति सन्तोदूतस्य दृष्टा बहवो हि दण्डाः॥ १४॥

वैरूप्यमङ्गेषु कशाभिघातोमौण्ड्यं तथा लक्षणसंनिपातः।एतान् हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य न नः श्रुतोऽस्ति॥ १५॥

कथं च धर्मार्थविनीतबुद्धिःपरावरप्रत्ययनिश्चितार्थः।भवद्विधः कोपवशे हि तिष्ठेत्कोपं न गच्छन्ति हि सत्त्ववन्तः॥ १६॥

न धर्मवादे न च लोकवृत्तेन शास्त्रबुद्धिग्रहणेषु वापि।विद्येत कश्चित्तव वीर तुल्य-स्त्वं ह्युत्तमः सर्वसुरासुराणाम्॥ १७॥

पराक्रमोत्साहमनस्विनां चसुरासुराणामपि दुर्जयेन।त्वयाप्रमेयेण सुरेन्द्रसङ्घाजिताश्च युद्धेष्वसकृन्नरेन्द्राः॥ १८॥

इत्थंविधस्यामरदैत्यशत्रोःशूरस्य वीरस्य तवाजितस्य।कुर्वन्ति वीरा मनसाप्यलीकंप्राणैर्विमुक्ता न तु भोः पुरा ते॥ १९॥

न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्।तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ २०॥

साधुर्वा यदि वासाधुः परैरेष समर्पितः।ब्रुवन् परार्थं परवान् न दूतो वधमर्हति॥ २१॥

अपि चास्मिन् हते नान्यं राजन् पश्यामि खेचरम्।इह यः पुनरागच्छेत् परं पारं महोदधेः॥ २२॥

तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय।भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति॥ २३॥

अस्मिन् विनष्टे नहि भूतमन्यंपश्यामि यस्तौ नरराजपुत्रौ।युद्धाय युद्धप्रिय दुर्विनीता-वुद्योजयेद् वै भवता विरुद्धौ॥ २४॥

पराक्रमोत्साहमनस्विनां चसुरासुराणामपि दुर्जयेन।त्वया मनोनन्दन नैर्ऋतानांयुद्धाय निर्नाशयितुं न युक्तम्॥ २५॥

हिताश्च शूराश्च समाहिताश्चकुलेषु जाताश्च महागुणेषु।मनस्विनः शस्त्रभृतां वरिष्ठाःकोपप्रशस्ताः सुभृताश्च योधाः॥ २६॥

तदेकदेशेन बलस्य तावत्केचित् तवादेशकृतोऽद्य यान्तु।तौ राजपुत्रावुपगृह्य मूढौपरेषु ते भावयितुं प्रभावम्॥ २७॥

निशाचराणामधिपोऽनुजस्यविभीषणस्योत्तमवाक्यमिष्टम्।जग्राह बुद्ध्या सुरलोकशत्रु-र्महाबलो राक्षसराजमुख्यः॥ २८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५.५२॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ५१सर्गः ५३

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu