श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda
सर्गः ५
Ask AIश्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥
ततः स मध्यंगतमंशुमन्तंज्योत्स्नावितानं मुहुरुद्वमन्तम्।ददर्श धीमान् भुवि भानुमन्तंगोष्ठे वृषं मत्तमिव भ्रमन्तम्॥ १॥
लोकस्य पापानि विनाशयन्तंमहोदधिं चापि समेधयन्तम्।भूतानि सर्वाणि विराजयन्तंददर्श शीतांशुमथाभियान्तम्॥ २॥
या भाति लक्ष्मीर्भुवि मन्दरस्थायथा प्रदोषेषु च सागरस्था।तथैव तोयेषु च पुष्करस्थारराज सा चारुनिशाकरस्था॥ ३॥
हंसो यथा राजतपञ्जरस्थःसिंहो यथा मन्दरकन्दरस्थः।वीरो यथा गर्वितकुञ्जरस्थ-श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः॥ ४॥
स्थितः ककुद्मानिव तीक्ष्णशृङ्गोमहाचलः श्वेत इवोर्ध्वशृङ्गः।हस्तीव जाम्बूनदबद्धशृङ्गोविभाति चन्द्रः परिपूर्णशृङ्गः॥ ५॥
विनष्टशीताम्बुतुषारपङ्कोमहाग्रहग्राहविनष्टपङ्कः।प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कोरराज चन्द्रो भगवान् शशाङ्कः॥ ६॥
शिलातलं प्राप्य यथा मृगेन्द्रोमहारणं प्राप्य यथा गजेन्द्रः।राज्यं समासाद्य यथा नरेन्द्र-स्तथा प्रकाशो विरराज चन्द्रः॥ ७॥
प्रकाशचन्द्रोदयनष्टदोषःप्रवृद्धरक्षःपिशिताशदोषः।रामाभिरामेरितचित्तदोषःस्वर्गप्रकाशो भगवान् प्रदोषः॥ ८॥
तन्त्रीस्वराः कर्णसुखाः प्रवृत्ताःस्वपन्ति नार्यः पतिभिः सुवृत्ताः।नक्तंचराश्चापि तथा प्रवृत्ताविहर्तुमत्यद्भुतरौद्रवृत्ताः॥ ९॥
मत्तप्रमत्तानि समाकुलानिरथाश्वभद्रासनसंकुलानि।वीरश्रिया चापि समाकुलानिददर्श धीमान् स कपिः कुलानि॥ १०॥
परस्परं चाधिकमाक्षिपन्तिभुजांश्च पीनानधिविक्षिपन्ति।मत्तप्रलापानधिविक्षिपन्तिमत्तानि चान्योन्यमधिक्षिपन्ति॥ ११॥
रक्षांसि वक्षांसि च विक्षिपन्तिगात्राणि कान्तासु च विक्षिपन्ति।रूपाणि चित्राणि च विक्षिपन्तिदृढानि चापानि च विक्षिपन्ति॥ १२॥
ददर्श कान्ताश्च समालभन्त्य-स्तथापरास्तत्र पुनः स्वपन्त्यः।सुरूपवक्त्राश्च तथा हसन्त्यःक्रुद्धाः पराश्चापि विनिःश्वसन्त्यः॥ १३॥
महागजैश्चापि तथा नदद्भिःसुपूजितैश्चापि तथा सुसद्भिः।रराज वीरैश्च विनिःश्वसद्भि-र्ह्रदा भुजंगैरिव निःश्वसद्भिः॥ १४॥
बुद्धिप्रधानान् रुचिराभिधानान्संश्रद्दधानाञ्जगतः प्रधानान्।नानाविधानान् रुचिराभिधानान्ददर्श तस्यां पुरि यातुधानान्॥ १५॥
ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान्।विद्योतमानान् स च तान् सुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान्॥ १६॥
ततो वरार्हाः सुविशुद्धभावा-स्तेषां स्त्रियस्तत्र महानुभावाः।प्रियेषु पानेषु च सक्तभावाददर्श तारा इव सुस्वभावाः॥ १७॥
स्त्रियो ज्वलन्तीस्त्रपयोपगूढानिशीथकाले रमणोपगूढाः।ददर्श काश्चित् प्रमदोपगूढायथा विहंगा विहगोपगूढाः॥ १८॥
अन्याः पुनर्हर्म्यतलोपविष्टा-स्तत्र प्रियाङ्केषु सुखोपविष्टाः।भर्तुः परा धर्मपरा निविष्टाददर्श धीमान् मदनोपविष्टाः॥ १९॥
अप्रावृताः काञ्चनराजिवर्णाःकाश्चित्परार्घ्यास्तपनीयवर्णाः।पुनश्च काश्चिच्छशलक्ष्मवर्णाःकान्तप्रहीणा रुचिराङ्गवर्णाः॥ २०॥
ततः प्रियान् प्राप्य मनोऽभिरामान्सुप्रीतियुक्ताः सुमनोऽभिरामाः।गृहेषु हृष्टाः परमाभिरामाहरिप्रवीरः स ददर्श रामाः॥ २१॥
चन्द्रप्रकाशाश्च हि वक्त्रमालावक्राः सुपक्ष्माश्च सुनेत्रमालाः।विभूषणानां च ददर्श मालाःशतह्रदानामिव चारुमालाः॥ २२॥
न त्वेव सीतां परमाभिजातांपथि स्थिते राजकुले प्रजाताम्।लतां प्रफुल्लामिव साधुजातांददर्श तन्वीं मनसाभिजाताम्॥ २३॥
सनातने वर्त्मनि संनिविष्टांरामेक्षणीं तां मदनाभिविष्टाम्।भर्तुर्मनः श्रीमदनुप्रविष्टांस्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम्॥ २४॥
उष्णार्दितां सानुसृतास्रकण्ठींपुरा वरार्होत्तमनिष्ककण्ठीम्।सुजातपक्ष्मामभिरक्तकण्ठींवने प्रनृत्तामिव नीलकण्ठीम्॥ २५॥
अव्यक्तरेखामिव चन्द्रलेखांपांसुप्रदिग्धामिव हेमरेखाम्।क्षतप्ररूढामिव वर्णरेखांवायुप्रभुग्नामिव मेघरेखाम्॥ २६॥
सीतामपश्यन्मनुजेश्वरस्यरामस्य पत्नीं वदतां वरस्य।बभूव दुःखोपहतश्चिरस्यप्लवंगमो मन्द इवाचिरस्य॥ २७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.