श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda
सर्गः ४७
Ask AIश्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥५-४७॥
सेनापतीन् पञ्च स तु प्रमापितान्हनूमता सानुचरान् सवाहनान्।निशम्य राजा समरोद्धतोन्मुखंकुमारमक्षं प्रसमैक्षताक्षम्॥ १॥
स तस्य दृष्ट्यर्पणसम्प्रचोदितःप्रतापवान् काञ्चनचित्रकार्मुकः।समुत्पपाताथ सदस्युदीरितोद्विजातिमुख्यैर्हविषेव पावकः॥ २॥
ततो महान् बालदिवाकरप्रभंप्रतप्तजाम्बूनदजालसंततम्।रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैर्ऋतर्षभः॥ ३॥
ततस्तपःसंग्रहसंचयार्जितंप्रतप्तजाम्बूनदजालचित्रितम्।पताकिनं रत्नविभूषितध्वजंमनोजवाष्टाश्ववरैः सुयोजितम्॥ ४॥
सुरासुराधृष्यमसङ्गचारिणंतडित्प्रभं व्योमचरं समाहितम्।सतूणमष्टासिनिबद्धबन्धुरंयथाक्रमावेशितशक्तितोमरम्॥ ५॥
विराजमानं प्रतिपूर्णवस्तुनासहेमदाम्ना शशिसूर्यवर्चसा।दिवाकराभं रथमास्थितस्ततःस निर्जगामामरतुल्यविक्रमः॥ ६॥
स पूरयन् खं च महीं च साचलांतुरङ्गमातङ्गमहारथस्वनैः।बलैः समेतैः सहतोरणस्थितंसमर्थमासीनमुपागमत् कपिम्॥ ७॥
स तं समासाद्य हरिं हरीक्षणोयुगान्तकालाग्निमिव प्रजाक्षये।अवस्थितं विस्मितजातसम्भ्रमंसमैक्षताक्षो बहुमानचक्षुषा॥ ८॥
स तस्य वेगं च कपेर्महात्मनःपराक्रमं चारिषु रावणात्मजः।विचारयन् स्वं च बलं महाबलोयुगक्षये सूर्य इवाभिवर्धत॥ ९॥
स जातमन्युः प्रसमीक्ष्य विक्रमंस्थितः स्थिरः संयति दुर्निवारणम्।समाहितात्मा हनुमन्तमाहवेप्रचोदयामास शितैः शरैस्त्रिभिः॥ १०॥
ततः कपिं तं प्रसमीक्ष्य गर्वितंजितश्रमं शत्रुपराजयोचितम्।अवैक्षताक्षः समुदीर्णमानसंसबाणपाणिः प्रगृहीतकार्मुकः॥ ११॥
स हेमनिष्काङ्गदचारुकुण्डलःसमाससादाशुपराक्रमः कपिम्।तयोर्बभूवाप्रतिमः समागमःसुरासुराणामपि सम्भ्रमप्रदः॥ १२॥
ररास भूमिर्न तताप भानुमान्ववौ न वायुः प्रचचाल चाचलः।कपेः कुमारस्य च वीर्यसंयुगंननाद च द्यौरुदधिश्च चुक्षुभे॥ १३॥
स तस्य वीरः सुमुखान् पतत्रिणःसुवर्णपुङ्खान् सविषानिवोरगान्।समाधिसंयोगविमोक्षतत्त्ववि-च्छरानथ त्रीन् कपिमूर्ध्न्यताडयत्॥ १४॥
स तैः शरैर्मूर्ध्नि समं निपातितैःक्षरन्नसृग्दिग्धविवृत्तनेत्रः।नवोदितादित्यनिभः शरांशुमान्व्यराजतादित्य इवांशुमालिकः॥ १५॥
ततः प्लवङ्गाधिपमन्त्रिसत्तमःसमीक्ष्य तं राजवरात्मजं रणे।उदग्रचित्रायुधचित्रकार्मुकंजहर्ष चापूर्यत चाहवोन्मुखः॥ १६॥
स मन्दराग्रस्थ इवांशुमालीविवृद्धकोपो बलवीर्यसंवृतः।कुमारमक्षं सबलं सवाहनंददाह नेत्राग्निमरीचिभिस्तदा॥ १७॥
ततः स बाणासनशक्रकार्मुकःशरप्रवर्षो युधि राक्षसाम्बुदः।शरान् मुमोचाशु हरीश्वराचलेबलाहको वृष्टिमिवाचलोत्तमे॥ १८॥
कपिस्ततस्तं रणचण्डविक्रमंप्रवृद्धतेजोबलवीर्यसायकम्।कुमारमक्षं प्रसमीक्ष्य संयुगेननाद हर्षाद् घनतुल्यनिःस्वनः॥ १९॥
स बालभावाद् युधि वीर्यदर्पितःप्रवृद्धमन्युः क्षतजोपमेक्षणः।समाससादाप्रतिमं रणे कपिंगजो महाकूपमिवावृतं तृणैः॥ २०॥
स तेन बाणैः प्रसभं निपातितै-श्चकार नादं घननादनिःस्वनः।समुत्सहेनाशु नभः समारुजन्भुजोरुविक्षेपणघोरदर्शनः॥ २१॥
तमुत्पतन्तं समभिद्रवद् बलीस राक्षसानां प्रवरः प्रतापवान्।रथी रथश्रेष्ठतरः किरन् शरैःपयोधरः शैलमिवाश्मवृष्टिभिः॥ २२॥
स ताञ्छरांस्तस्य हरिर्विमोक्षयं-श्चचार वीरः पथि वायुसेविते।शरान्तरे मारुतवद् विनिष्पतन्मनोजवः संयति भीमविक्रमः॥ २३॥
तमात्तबाणासनमाहवोन्मुखंखमास्तृणन्तं विविधैः शरोत्तमैः।अवैक्षताक्षं बहुमानचक्षुषाजगाम चिन्तां स च मारुतात्मजः॥ २४॥
ततः शरैर्भिन्नभुजान्तरः कपिःकुमारवर्येण महात्मना नदन्।महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम्॥ २५॥
अबालवद् बालदिवाकरप्रभःकरोत्ययं कर्म महन्महाबलः।न चास्य सर्वाहवकर्मशालिनःप्रमापणे मे मतिरत्र जायते॥ २६॥
अयं महात्मा च महांश्च वीर्यतःसमाहितश्चातिसहश्च संयुगे।असंशयं कर्मगुणोदयादयंसनागयक्षैर्मुनिभिश्च पूजितः॥ २७॥
पराक्रमोत्साहविवृद्धमानसः-समीक्षते मां प्रमुखोऽग्रतः स्थितः।पराक्रमो ह्यस्य मनांसि कम्पयेत्सुरासुराणामपि शीघ्रकारिणः॥ २८॥
न खल्वयं नाभिभवेदुपेक्षितःपराक्रमो ह्यस्य रणे विवर्धते।प्रमापणं ह्यस्य ममाद्य रोचतेन वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९॥
इति प्रवेगं तु परस्य तर्कयन्स्वकर्मयोगं च विधाय वीर्यवान्।चकार वेगं तु महाबलस्तदामतिं च चक्रेऽस्य वधे तदानीम्॥ ३०॥
स तस्य तानष्ट वरान् महाहयान्समाहितान् भारसहान् विवर्तने।जघान वीरः पथि वायुसेवितेतलप्रहारैः पवनात्मजः कपिः॥ ३१॥
ततस्तलेनाभिहतो महारथःस तस्य पिङ्गाधिपमन्त्रिनिर्जितः।स भग्ननीडः परिवृत्तकूबरःपपात भूमौ हतवाजिरम्बरात्॥ ३२॥
स तं परित्यज्य महारथो रथंसकार्मुकः खड्गधरः खमुत्पतन्।ततोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम्॥ ३३॥
कपिस्ततस्तं विचरन्तमम्बरेपतत्त्रिराजानिलसिद्धसेविते।समेत्य तं मारुतवेगविक्रमःक्रमेण जग्राह च पादयोर्दृढम्॥ ३४॥
स तं समाविध्य सहस्रशः कपि-र्महोरगं गृह्य इवाण्डजेश्वरः।मुमोच वेगात् पितृतुल्यविक्रमोमहीतले संयति वानरोत्तमः॥ ३५॥
स भग्नबाहूरुकटीपयोधरःक्षरन्नसृङ्निर्मथितास्थिलोचनः।सम्भिन्नसंधिः प्रविकीर्णबन्धनोहतः क्षितौ वायुसुतेन राक्षसः॥ ३६॥
महाकपिर्भूमितले निपीड्य तंचकार रक्षोऽधिपतेर्महद्भयम्।महर्षिभिश्चक्रचरैः समागतैःसमेत्य भूतैश्च सयक्षपन्नगैः।सुरैश्च सेन्द्रैर्भृशजातविस्मयै-र्हते कुमारे स कपिर्निरीक्षितः॥ ३७॥
निहत्य तं वज्रिसुतोपमं रणेकुमारमक्षं क्षतजोपमेक्षणम्।तदेव वीरोऽभिजगाम तोरणंकृतक्षणः काल इव प्रजाक्षये॥ ३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ।। ५.४७।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.