Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Sundara Kanda
  6. सर्गः ४४

श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda

सर्गः ४४

Ask AI

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥५-४४॥

संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ १ ॥

रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः ।महान् विवृत्तनयनश्चण्डः समरदुर्जयः ॥ २ ॥

धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् ।विस्फारयानो वेगेन वज्राशनिसमस्वनम् ॥ ३ ॥

तस्य विस्फारघोषेण धनुषो महता दिशः ।प्रदिशश्च नभश्चॆव सहसा समपूर्यत ॥ ४ ॥

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।हनुमान् वेगसंपन्नो जहर्ष च ननाद च ॥ ५ ॥

तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् ।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ॥ ६ ॥

अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ ७ ॥

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।शरदीवाम्बुजम्फुल्लं विद्धं भास्कररश्मिना ॥ ८ ॥

तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ।यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ ९ ॥

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम् ॥ १० ॥

तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ ११ ॥

विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः ।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२ ॥

भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ॥ १३ ॥

सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४ ॥

स शरैः पूरिततनुः क्रोधेन महता वृतः ।तमेव परिघं गृह्य भ्रामयामास वेगतः ॥ १५ ॥

अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः ।परिघं पातयामास जम्बुमालेर्महोरसि ॥ १६ ॥

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।न धनुर्नरथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ १७ ॥

स हतस्तरसा तेन जम्बुमाली महाबलः ।पपात निहतो भूवौ चूर्णिताङ्गविभूषणः ॥ १८ ॥

जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।चुक्रोध रावणः श्रुत्वा कोपसंरक्त लोचनः ॥ १९ ॥

स रोषसंवर्तितताम्रलोचनःप्रहस्त पुत्रे निहते महाबले ।अमात्यपुत्रानतिवीर्यविक्रमान्समादिदेशाशु निशाचरेश्वरः ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ५.४४ ॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ४३सर्गः ४५

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu