श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda
सर्गः ३२
Ask AIश्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥५-३२॥
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा।वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम्॥ १॥
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्।फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्॥ २॥
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्।मैथिली चिन्तयामास विस्मयं परमं गता॥ ३॥
अहो भीममिदं सत्त्वं वानरस्य दुरासदम्।दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा॥ ४॥
विललाप भृशं सीता करुणं भयमोहिता।राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी॥ ५॥
रुरोद सहसा सीता मन्दमन्दस्वरा सती।साथ दृष्ट्वा हरिवरं विनीतवदुपागतम्।मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ ६॥
सा वीक्षमाणा पृथुभुग्नवक्त्रंशाखामृगेन्द्रस्य यथोक्तकारम्।ददर्श पिंगप्रवरं महार्हंवातात्मजं बुद्धिमतां वरिष्ठम्॥ ७॥
सा तं समीक्ष्यैव भृशं विपन्नागतासुकल्पेव बभूव सीता।चिरेण संज्ञां प्रतिलभ्य चैवंविचिन्तयामास विशालनेत्रा॥ ८॥
स्वप्नो मयायं विकृतोऽद्य दृष्टःशाखामृगः शास्त्रगणैर्निषिद्धः।स्वस्त्यस्तु रामाय सलक्ष्मणायतथा पितुर्मे जनकस्य राज्ञः॥ ९॥
स्वप्नो हि नायं नहि मेऽस्ति निद्राशोकेन दुःखेन च पीडितायाः।सुखं हि मे नास्ति यतो विहीनातेनेन्दुपूर्णप्रतिमाननेन॥ १०॥
रामेति रामेति सदैव बुद्ध्याविचिन्त्य वाचा ब्रुवती तमेव।तस्यानुरूपं च कथां तदर्था-मेवं प्रपश्यामि तथा शृणोमि॥ ११॥
अहं हि तस्याद्य मनोभवेनसम्पीडिता तद्गतसर्वभावा।विचिन्तयन्ती सततं तमेवतथैव पश्यामि तथा शृणोमि॥ १२॥
मनोरथः स्यादिति चिन्तयामितथापि बुद्ध्यापि वितर्कयामि।किं कारणं तस्य हि नास्ति रूपंसुव्यक्तरूपश्च वदत्ययं माम्॥ १३॥
नमोऽस्तु वाचस्पतये सवज्रिणेस्वयम्भुवे चैव हुताशनाय।अनेन चोक्तं यदिदं ममाग्रतोवनौकसा तच्च तथास्तु नान्यथा॥ १४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ५.३२॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.