श्रीमद्वाल्मीकीय रामायणम् · Sundara Kanda
सर्गः २९
Ask AIश्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥५-२९॥
तथागतां तां व्यथितामनिन्दितांव्यतीतहर्षां परिदीनमानसाम्।शुभां निमित्तानि शुभानि भेजिरेनरं श्रिया जुष्टमिवोपसेविनः॥ १॥
तस्याः शुभं वाममरालपक्ष्म-राज्यावृतं कृष्णविशालशुक्लम्।प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम्॥ २॥
भुजश्च चार्वञ्चितवृत्तपीनःपरार्घ्यकालागुरुचन्दनार्हः।अनुत्तमेनाघ्युषितः प्रियेणचिरेण वामः समवेपताशु॥ ३॥
गजेन्द्रहस्तप्रतिमश्च पीन-स्तयोर्द्वयोः संहतयोस्तु जातः।प्रस्पन्दमानः पुनरूरुरस्यारामं पुरस्तात् स्थितमाचचक्षे॥ ४॥
शुभं पुनर्हेमसमानवर्ण-मीषद्रजोध्वस्तमिवातुलाक्ष्याः।वासः स्थितायाः शिखराग्रदन्त्याःकिंचित् परिस्रंसत चारुगात्र्याः॥ ५॥
एतैर्निमित्तैरपरैश्च सुभ्रूःसंचोदिता प्रागपि साधुसिद्धैः।वातातपक्लान्तमिव प्रणष्टंवर्षेण बीजं प्रतिसंजहर्ष॥ ६॥
तस्याः पुनर्बिम्बफलोपमोष्ठंस्वक्षिभ्रुकेशान्तमरालपक्ष्म।वक्त्रं बभासे सितशुक्लदंष्ट्रंराहोर्मुखाच्चन्द्र इव प्रमुक्तः॥ ७॥
सा वीतशोका व्यपनीततन्द्राशान्तज्वरा हर्षविबुद्धसत्त्वा।अशोभतार्या वदनेन शुक्लेशीतांशुना रात्रिरिवोदितेन॥ ८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ।। ५.२९।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.