श्रीमद्वाल्मीकीय रामायणम् · Kishkindha Kanda
सर्गः २४
Ask AIश्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-२४॥
तामाशु वेगेन दुरासदेनत्वभिप्लुतां शोकमहार्णवेन।पश्यंस्तदा वाल्यनुजस्तरस्वीभ्रातुर्वधेनाप्रतिमेन तेपे॥ १॥
स बाष्पपूर्णेन मुखेन पश्यन्क्षणेन निर्विण्णमना मनस्वी।जगाम रामस्य शनैः समीपंभृत्यैर्वृतः सम्परिदूयमानः॥ २॥
स तं समासाद्य गृहीतचाप-मुदात्तमाशीविषतुल्यबाणम्।यशस्विनं लक्षणलक्षिताङ्ग-मवस्थितं राघवमित्युवाच॥ ३॥
यथा प्रतिज्ञातमिदं नरेन्द्रकृतं त्वया दृष्टफलं च कर्म।ममाद्य भोगेषु नरेन्द्रसूनोमनो निवृत्तं हतजीवितेन॥ ४॥
अस्यां महिष्यां तु भृशं रुदत्यांपुरेऽतिविक्रोशति दुःखतप्ते।हते नृपे संशयितेऽङ्गदे चन राम राज्ये रमते मनो मे॥ ५॥
क्रोधादमर्षादतिविप्रधर्षाद्भ्रातुर्वधो मेऽनुमतः पुरस्तात्।हते त्विदानीं हरियूथपेऽस्मिन्सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये॥ ६॥
श्रेयोऽद्य मन्ये मम शैलमुख्येतस्मिन् हि वासश्चिरमृष्यमूके।यथा तथा वर्तयतः स्ववृत्त्यानेमं निहत्य त्रिदिवस्य लाभः॥ ७॥
न त्वा जिघांसामि चरेति यन्मा-मयं महात्मा मतिमानुवाच।तस्यैव तद् राम वचोऽनुरूप-मिदं वचः कर्म च मेऽनुरूपम्॥ ८॥
भ्राता कथं नाम महागुणस्यभ्रातुर्वधं राम विरोचयेत।राज्यस्य दुःखस्य च वीर सारंविचिन्तयन् कामपुरस्कृतोऽपि॥ ९॥
वधो हि मे मतो नासीत् स्वमाहात्म्यव्यतिक्रमात्।ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः॥ १०॥
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन्।सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि॥ ११॥
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः।मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्॥ १२॥
अचिन्तनीयं परिवर्जनीय-मनीप्सनीयं स्वनवेक्षणीयम्।प्राप्तोऽस्मि पाप्मानमिदं वयस्यभ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः॥ १३॥
पाप्मानमिन्द्रस्य मही जलं चवृक्षाश्च कामं जगृहुः स्त्रियश्च।को नाम पाप्मानमिमं सहेतशाखामृगस्य प्रतिपत्तुमिच्छेत्॥ १४॥
नार्हामि सम्मानमिमं प्रजानांन यौवराज्यं कुत एव राज्यम्।अधर्मयुक्तं कुलनाशयुक्त-मेवंविधं राघव कर्म कृत्वा॥ १५॥
पापस्य कर्तास्मि विगर्हितस्यक्षुद्रस्य लोकापकृतस्य लोके।शोको महान् मामभिवर्ततेऽयंवृष्टेर्यथा निम्नमिवाम्बुवेगः॥ १६॥
सोदर्यघातापरगात्रवालःसंतापहस्ताक्षिशिरोविषाणः।एनोमयो मामभिहन्ति हस्तीदृप्तो नदीकूलमिव प्रवृद्धः॥ १७॥
अंहो बतेदं नृवराविषह्यंनिवर्तते मे हृदि साधुवृत्तम्।अग्नौ विवर्णं परितप्यमानंकिट्टं यथा राघव जातरूपम्॥ १८॥
महाबलानां हरियूथपाना-मिदं कुलं राघव मन्निमित्तम्।अस्याङ्गदस्यापि च शोकतापा-दर्धस्थितप्राणमितीव मन्ये॥ १९॥
सुतः सुलभ्यः सुजनः सुवश्यःकुतस्तु पुत्रः सदृशोऽङ्गदेन।न चापि विद्येत स वीर देशोयस्मिन् भवेत् सोदरसंनिकर्षः॥ २०॥
अद्याङ्गदो वीरवरो न जीवे-ज्जीवेत माता परिपालनार्थम्।विना तु पुत्रं परितापदीनासा नैव जीवेदिति निश्चितं मे॥ २१॥
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निंभ्रात्रा च पुत्रेण च सख्यमिच्छन्।इमे विचेष्यन्ति हरिप्रवीराःसीतां निदेशे परिवर्तमानाः॥ २२॥
कृत्स्नं तु ते सेत्स्यति कार्यमेत-न्मय्यप्यतीते मनुजेन्द्रपुत्र।कुलस्य हन्तारमजीवनार्हंरामानुजानीहि कृतागसं माम्॥ २३॥
इत्येवमार्तस्य रघुप्रवीरःश्रुत्वा वचो वालिजघन्यजस्य।संजातबाष्पः परवीरहन्तारामो मुहूर्तं विमना बभूव॥ २४॥
तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणःक्षितिक्षमावान् भुवनस्य गोप्ता।रामो रुदन्तीं व्यसने निमग्नांसमुत्सुकः सोऽथ ददर्श ताराम्॥ २५॥
तां चारुनेत्रां कपिसिंहनाथांपतिं समाश्लिष्य तदा शयानाम्।उत्थापयामासुरदीनसत्त्वांमन्त्रिप्रधानाः कपिराजपत्नीम्॥ २६॥
सा विस्फुरन्ती परिरभ्यमाणाभर्तुः समीपादपनीयमाना।ददर्श रामं शरचापपाणिंस्वतेजसा सूर्यमिव ज्वलन्तम्॥ २७॥
सुसंवृतं पार्थिवलक्षणैश्चतं चारुनेत्रं मृगशावनेत्रा।अदृष्टपूर्वं पुरुषप्रधान-मयं स काकुत्स्थ इति प्रजज्ञे॥ २८॥
तस्येन्द्रकल्पस्य दुरासदस्यमहानुभावस्य समीपमार्या।आर्तातितूर्णं व्यसनं प्रपन्नाजगाम तारा परिविह्वलन्ती॥ २९॥
तं सा समासाद्य विशुद्धसत्त्वंशोकेन सम्भ्रान्तशरीरभावा।मनस्विनी वाक्यमुवाच तारारामं रणोत्कर्षणलब्धलक्ष्यम्॥ ३०॥
त्वमप्रमेयश्च दुरासदश्चजितेन्द्रियश्चोत्तमधर्मकश्च।अक्षीणकीर्तिश्च विचक्षणश्चक्षितिक्षमावान् क्षतजोपमाक्षः॥ ३१॥
त्वमात्तबाणासनबाणपाणि-र्महाबलः संहननोपपन्नः।मनुष्यदेहाभ्युदयं विहायदिव्येन देहाभ्युदयेन युक्तः॥ ३२॥
येनैव बाणेन हतः प्रियो मेतेनैव बाणेन हि मां जहीहि।हता गमिष्यामि समीपमस्यन मां विना वीर रमेत वाली॥ ३३॥
स्वर्गेऽपि पद्मामलपत्रनेत्रसमेत्य सम्प्रेक्ष्य च मामपश्यन्।न ह्येष उच्चावचताम्रचूडाविचित्रवेषाप्सरसोऽभजिष्यत्॥ ३३॥
स्वर्गेऽपि शोकं च विवर्णतां चमया विना प्राप्स्यति वीर वाली।रम्ये नगेन्द्रस्य तटावकाशेविदेहकन्यारहितो यथा त्वम्॥ ३५॥
त्वं वेत्थ तावद् वनिताविहीनःप्राप्नोति दुःखं पुरुषः कुमारः।तत् त्वं प्रजानञ्जहि मां न वालीदुःखं ममादर्शनजं भजेत॥ ३६॥
यच्चापि मन्येत भवान् महात्मास्त्रीघातदोषस्तु भवेन्न मह्यम्।आत्मेयमस्येति हि मां जहि त्वंन स्त्रीवधः स्यान्मनुजेन्द्रपुत्र॥ ३७॥
शास्त्रप्रयोगाद् विविधाश्च वेदा-दनन्यरूपाः पुरुषस्य दाराः।दारप्रदानाद्धि न दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके॥ ३८॥
त्वं चापि मां तस्य मम प्रियस्यप्रदास्यसे धर्ममवेक्ष्य वीर।अनेन दानेन न लप्स्यसे त्व-मधर्मयोगं मम वीर घातात्॥ ३९॥
आर्तामनाथामपनीयमाना-मेवंगतां नार्हसि मामहन्तुम्।अहं हि मातङ्गविलासगामिनाप्लवंगमानामृषभेण धीमता।विना वरार्होत्तमहेममालिनाचिरं न शक्ष्यामि नरेन्द्र जीवितुम्॥ ४०॥
इत्येवमुक्तस्तु विभुर्महात्मातारां समाश्वास्य हितं बभाषे।मा वीरभार्ये विमतिं कुरुष्वलोको हि सर्वो विहितो विधात्रा॥ ४१॥
तं चैव सर्वं सुखदुःखयोगंलोकोऽब्रवीत् तेन कृतं विधात्रा।त्रयोऽपि लोका विहितं विधानंनातिक्रमन्ते वशगा हि तस्य॥ ४२॥
प्रीतिं परां प्राप्स्यसि तां तथैवपुत्रश्च ते प्राप्स्यति यौवराज्यम्।धात्रा विधानं विहितं तथैवन शूरपत्न्यः परिदेवयन्ति॥ ४३॥
आश्वासिता तेन महात्मना तुप्रभावयुक्तेन परंतपेन।सा वीरपत्नी ध्वनता मुखेनसुवेषरूपा विरराम तारा॥ ४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-२४॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.