श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda
सर्गः ३८
Ask AIश्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् ।पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१-३८-१॥
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः ।सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥१-३८-२॥
वैदर्भदुहिता राम केशिनी नाम नामतः ।ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥१-३८-३॥
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा ।द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥१-३८-४॥
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः ।हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥१-३८-५॥
अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः ।सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥१-३८-६॥
अपत्यलाभः सुमहान् भविष्यति तवानघ ।कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
एका जनयिता तात पुत्रं वंशकरं तव ।षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥१-३८-९॥
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति ।श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१-३८-१०॥
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः ।उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥१-३८-११॥
एको वंशकरो वास्तु बहवो वा महाबलाः ।कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥१-३८-१२॥
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन ।पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥१-३८-१३॥
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् ।जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥१-३८-१५॥
अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत ।असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥१-३८-१६॥
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥१-३८-१७॥
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् ।कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१-३८-१८॥
अथ दीर्घेण कालेन रूपयौवनशालिनः ।षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१-३८-१९॥
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः ।बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥१-३८-२०॥
प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै ।एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-२१॥
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ।तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१-३८-२२॥
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ।ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ।स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा ।यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥१-३८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.