श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda
सर्गः ३४
Ask AIश्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥
कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः ।जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥
पूर्वजा भगिनी चापि मम राघव सुव्रता ।नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रितालोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठितापतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥
अहं हि नियमाद्राम हित्वा तां समुपागतःसिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तितादेशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥
शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् ।नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥
उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः ।ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥
एवमुक्त्वा महातेजा विरराम महामुनिः ।साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥
कुशिकानामयं वंशो महान् धर्मपरः सदा ।ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥
विशेषेण भवानेव विश्वामित्र महायशः ।कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥
मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.