Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः २१

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः २१

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥

यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् ।मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥

इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥

प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥

एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥

न देवा नर्षयः केचिन्नामरा न च राक्षसाः ।गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥

तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥

पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् ।वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥

सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः ।संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥

तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः ।अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥

तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः ।न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥

एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥

तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥

इति मुनिवचनात् प्रसन्नचित्तो:::रघुवृषभः च मुमोद पार्थिवाग्र्यः ।गमनमभिरुरोच राघवस्य:::प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः २०सर्गः २२

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu