श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda
सर्गः १७
Ask AIश्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥१-१७-१॥
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः ।विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥१-१७-२॥
मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥१-१७-३॥
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥१-१७-४॥
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥१-१७-५॥
किन्नरीणां च गात्रेषु वानरीणां तनूषु च ।सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥१-१७-६॥
पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः ।जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥१-१७-८॥
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-९॥
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् ।सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-१०॥
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् ।सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-११॥
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-१२॥
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-१३॥
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ ।मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-१४॥
वरुणो जनयामास सुषेणं नाम वानरम् ।शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-१५॥
मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः ।वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-१६॥
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि ।ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१-१७-१७॥
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-१८॥
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-१९॥
अजायत समं तेन तस्य तस्य पृथक् पृथक् ।गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-२०॥
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-२१॥
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-२२॥
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ।वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-२३॥
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।नागकन्यासु च तदा गन्धर्वीणां तनूषु च ।कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-२४॥
सिंहशार्दूलसदृशा दर्पेण च बलेन च ।शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-२५॥
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-२६॥
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-२७॥
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ।गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् ।ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-२९॥
शतं शतसहस्राणि यूथपानां महात्मनाम् ।ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-३०॥
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् ।अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-३१॥
अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे ।सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-३२॥
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः ।नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-३३॥
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-३४॥
महाबलो महाबाहुर्वाली विपुलविक्रमः ।जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-३५॥
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-३६॥
तैर्मेघवृन्दाचलकूटसंनिभै-:::र्महाबलैर्वानरयूथपाधिपैःबभूव भूर्भीमशरीररूपैः:::समावृता रामसहायहेतोः ॥१-१७-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.