Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Bala Kanda
  6. सर्गः १२

श्रीमद्वाल्मीकीय रामायणम् · Bala Kanda

सर्गः १२

Ask AI

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥

ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥

तथेति च स राजानमुवाच वसुधाधिपम् ।सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥

पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥

ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥

ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥

छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥

तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥

गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः ।विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ११सर्गः १३

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu