Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Ayodhya Kanda
  6. सर्गः ८५

श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda

सर्गः ८५

Ask AI

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥

एवम् उक्तः तु भरतः निषादअधिपतिम् गुहम् ।प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥

ऊर्जितः खलु ते कामः कृतःमम गुरोह् सखे ।यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥

इति उक्त्वा तु महा तेजा गुहम्वचनम् उत्तमम् ।अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥

कतरेण गमिष्यामि भरद्वाजआश्रमम् गुह ।गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥

तस्य तत् वचनम् श्रुत्वा राजपुत्रस्य धीमतः ।अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥

दाशाः तु अनुगमिष्यन्तिधन्विनः सुसमाहिताः ।अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥

कच्चिन् न दुष्टः व्रजसि रामस्यअक्लिष्ट कर्मणः ।इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥

तम् एवम् अभिभाषन्तम्आकाशैव निर्मलः ।भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥

मा भूत् स कालो यत् कष्टम् नमाम् शन्कितुम् अर्हसि ।राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥

तम् निवर्तयितुम् यामि काकुत्स्थम्वन वासिनम् ।बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥

स तु सम्हृष्ट वदनः श्रुत्वाभरत भाषितम् ।पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥

धन्यः त्वम् न त्वया तुल्यम्पश्यामि जगती तले ।अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥

शाश्वती खलु ते कीर्तिर्लोकान् अनुचरिष्यति ।यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥

एवम् सम्भाषमाणस्य गुहस्यभरतम् तदा ।बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥

सम्निवेश्य स ताम् सेनाम् गुहेनपरितोषितः ।शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥

राम चिन्तामयः शोको भरतस्यमहात्मनः ।उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥

अन्तर् दाहेन दहनः सम्तापयतिराघवम् ।वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥

प्रस्रुतः सर्व गात्रेभ्यः स्वेदःशोक अग्नि सम्भवः ।यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥

ध्यान निर्दर शैलेनविनिह्श्वसित धातुना ।दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥

प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥

विनिश्श्वसन्वैभृशदुर्मनास्ततः ।प्रमूढसम्ज्ञः परमापदम् गतः ।शमम् न लेभे हृदयज्वरार्दितो ।नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥

गुहेन सार्धम् भरतःसमागतः ।महा अनुभावः सजनः समाहितः ।सुदुर्मनाः तम् भरतम् तदा पुनर् ।गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः ८४सर्गः ८६

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu